पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
३६७
नवमः सर्गः।

 निजैव बुद्धिः पृच्छयतामिति पूर्वमुक्तम् , इदानी स्वयमेवाह-

  अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् ।

  स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय [१] हृदापि तादृशीम्

 अपीति ॥ अमी देवाः मां परस्य नलस्य दारास्त्रियं अनवैतुमनवज्ञातुमेव अस्वप्नमपि निद्रारहितमाप स्वमात्मानमसूषुपान्नद्रापयन्त स्म । दवास्त्वस्वप्नाः अपिः संभावनायाम् । एतदर्थमेवास्वप्नं स्वमसूषुपन्नित्यहं संभावयामीत्यर्थः । अस्मिन्नर्थै गूढोपहासामन्यथानुपपत्तिं प्रमाणयति-स्वयमात्मनैव दुष्टोऽध्वा दुरध्वः परदारवाञ्छाद्यमार्गः स एवार्णवस्तुमुत्तारयितुं नाविकाः कर्णधारा दुराचारप्रवृत्तजननिवारका एते तादृशीं परस्त्रियं विज्ञाय विशेषेण ज्ञात्वा हृदापि कथं स्पृशन्तु मनसापि परस्त्रियं कथमिच्छन्त्वपि । सदाचाराणां ज्ञात्वैतत्कर्तुमनुचितमित्यर्थः । 'स्वप्नवशादेवाहं तैमनस्यबुद्धिपूर्व धृतेति तेषां न दोषः । अन्यथा येऽन्यानुपदिशन्ति ते स्वयं कथं परदारान्वाञ्छन्तीति भावः । एवंविधा अपि परदारानभिलष्यन्तीत्युपहासः । समुद्रकर्णधारत्वेन ते स्पर्शनयोग्या अपि न भवन्तीति सूचितम् । असूषुपन् , ण्यन्तात्स्वपेश्चङि 'स्वा[२]पेश्चङि' इति संप्रसारणम् । दुरध्वः, 'उपसर्गादध्वनः' इत्यच् । 'व्यध्वो दुरध्वो विपथः' इत्यमरः । नाविकाः 'तरति' इत्यर्थे 'नौव्द्यचष्टन्' इति ठ[३]न् ॥

  अनुग्रहः के[४]वलमेष मादृशे मनुष्यजन्मन्यपि य[५]न्मनो जने।

  स चेद्विधेयस्तदमी तमेव मे प्रसद्य भिक्षां वितरीतुमीशताम्॥३४॥

 अनुग्रह इति ॥ (मादृशे) मनुष्यजन्मन्यपि मादृशे मल्लक्षणे जने यत् तेषां मनः, अ. नुरक्तमित्यर्थात् । एष केवलं तेषामनुग्रहः कृपा, न तु तत्त्वतोऽनुरक्ताः । ममायोग्य- त्वात् । सोऽनुग्रहः चेत् यदि विधेयः कर्तव्यः, तत्तर्हि अमी देवाः प्रसद्य प्रसन्नीभूय मे मह्यं तमेव नलमेव भिक्षां वितरीतुमीशताम् समर्था भवन्तु । अहं तानेव नलं याचे, तैः प्रसन्नीभूय नल एव दातव्यो, न त्वन्योऽभिलाषः। मनुष्याज्जन्म यस्येति वहुव्रीहिः । अन्वादेशत्वाञ्चतुर्थ्या मयादेशः । वितरीतुम् , 'वृतो वा' इतीटो दीर्घः[६]

 नलावरणे स्वप्रतिज्ञामाह-

  अपि द्रढीयः शृणु मत्प्रतिश्रुतं स पीडयेत्पाणिमिमं न चेन्नृपः ।

  हुताशनोद्बन्धनवारिकारितां निजायुषस्तत्करवै स्ववैरिताम्॥३५॥

 अपीति ॥ अपिः अन्यञ्चेत्यर्थे । त्वं द्रढीयः दृढतरं केनाप्यनिराकार्यं मम प्रतिश्रुतं


  1. 'तथापि' इति पठित्वा ‘स्वप्नैपि' इति व्याख्यातं साहित्यविद्याधर्याम्'
  2. 'द्युतिस्वाप्यो:-' इति मल्लिनाथस्तु भ्रान्तः । अभ्यासोत्तरखण्डे संप्रसारणाश्रवणप्रसङ्गात् ।
  3. 'अत्र विरोधरूपकहेत्वलंकारः' इति साहित्यविद्याधरी
  4. 'केवल एव';
  5. 'तन्मनः' इति पाठः साहित्यविद्याधरीसंमतः
  6. 'अत्र हेत्वलंकारः' इति साहित्यविद्याधरी