पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
नैषधीयचरिते


त्संपूर्णत्वात्कलङ्कस्यास्पष्टत्वात्, स्त्रीप्रधानत्वाद्वा । अस्य चतुःषष्टिकलत्वात् । 'शारदः पीतमुद्ने स्याच्छालीनेऽप्रतिभे नवे' । तच्छयच्छाय इति 'विभाषा सेना-' इत्यादिना नपुंसकत्वम् । शारद इति भवार्थे 'संधिवेला-' इत्यण् । पार्विक इति भवार्थे 'कालाठ्ठ्ञ्' । 'पार्वणः' इति पाठे संबन्धेऽणि 'अन्' इति प्रकृति भावः

प्रकारान्तरेण सामुद्रिकलक्षणवत्त्वमाह--

किमस्य लोम्नां कपटेन कोटिभिर्विधिर्न लेखाभिरजीगणट्गुणान् ।
न रोमकूपौघमिषाज्जगत्कृता कृताश्च किं दूषणशून्यबिन्दवः ॥२१॥

किमिति ॥ विधिर्ब्रह्मा रोम्णां कपटेन मिषेण सार्धत्रिकोटिभी रेखाभिरस्य नलस्य गुणाञ्शौर्यौदार्यादीन्कि नाजीगणत्, अपि तु गणयामासेति काकुः । गुणगणनया गणकेन ब्रह्मणा लेखा एव लिखिता न तु रोमाणि । अनेन सर्वगुणवत्त्वं तस्य द्योतितम् । दोषराहित्यमाह-जगत्कृता ब्रह्मणा रोमकूपौघमिषाद्रोमकूपसमूहव्याजेन दूषणशून्यविन्दवो दूषणानां शून्यान्यभावास्तज्ज्ञापका विन्दवश्च न कृताः किम्, अपि तु कृता एव । यत्र किमपि न तत्र ज्योतिर्विद्भिः शून्यसूचको बिन्दुन्न क्रियते, तथा रोमकूपा अपि वर्तुला बिन्दुत्वेनोत्प्रेक्षन्ते । अयं रोमकूपो न, किंतु दोषराहित्यसूचका बिन्दव एव लिखिताः। 'तिस्रः कोट्योऽर्धकोटी च यानि रोमाणि मानुषे' इति तावन्तः कूपा इति । 'रोमैकैकं कूपके पार्थिवानाम्' इति सामुद्रिकलक्षणं सूच्यते । अजीगणत् । ण्यन्ताच्चङि द्वित्वे 'ई च गण:

अमुष्य दोार्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता।
उर:श्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिरःप्रसारिता ॥ २२ ॥

अमुष्येति ॥ अमुष्य नलस्य दोर्भ्यामरिदुर्गलुण्ठनेऽरीणां दुर्गाणि गिरिप्राकारास्तेषां लुण्ठने बलाद्रहणे क्रियमाणे सति, अर्गलदीर्घपीनतागलस्येव दीर्घ च तत्पीनं च, तस्य भावस्तत्ता । कर्मधारयो द्वन्द्वो वा। सा गृहीता ध्रुवं गृहीता ननु । ध्रुवं प्रायेण वा । तत्र च तत्रैवारिदुर्गलुण्ठन एवामुष्योर:श्रिया वक्षस्थलंशोभया गोपुरे स्फुरदीप्यमानं यत्कपाटं तस्य दुर्धर्षता कठिनता तिर:प्रसारिता विशालता च गृहीता किम् । अनेन तस्याजानुबाहुत्वं व्यूढोरस्कत्वमनाकलनीयत्वं च ध्वनितम् । लुण्ठने समर्थ एवाग्रणीर्भवति पुरोवर्तिसारं वस्तु गृह्णाति । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः,'पुरद्वारं तु गोपुरम्' इति च । उभयत्र कर्मधारयात्तल्

स्वकेलिलेशस्मितनिन्दितेन्दुनो निजांशट्टक्तर्जितपद्मसंपदः ।
अतद्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥ २३


१ 'अत्र छेकानुप्रासपग्किरालंकारसंसृष्टिः । 'विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः' इति साहित्यविद्याधरी । अत्राझ्यादिना पद्मादिषु घृणाद्यसंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः' इति जीवातुः । २ 'अत्र रोम्णां रोमकूपाणां च कपटमिषशब्दाभ्यां ताद्रूप्यापहंवन गुणगणनारेखावरूषणशून्यबिन्दुत्वयोरुत्प्रेक्षणात्सापहवोत्प्रेक्षयोः संसृष्टिः' इति जीवातुः। ३ 'अत्राप्युत्प्रेक्षयोः संसृष्टिः' इति जीवातुः। 'उत्प्रेक्षा चोपमा चालंकारः' इति साहित्यविद्याधरी