पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७१
नैषधीयचरिते

  तपोनले जुह्वति सूरयस्तनूर्दिवे फलायान्यजनुर्भविष्णवे ।

  करे पुनः कर्षति सैव विह्वला बलादिवत्वां वलसे न बालिशे॥४५॥

 तप इति॥सूरयो वुधाःअन्यत् यज्जनुःजन्म तत्र भविष्णवे भाविने दिवे स्वर्गलक्षणाय फलाय तपोनले चान्द्रायणादितपोरूपेऽग्नौ तनूः शरीराणि जुह्वति प्रक्षिपन्ति । यदर्थे शरीरपीडामपि कृत्वा तपोऽर्जयन्ति सैव इन्द्रादिस्वरूपा द्यौरेव पुनस्त्वदनुरागवशाद्विह्वला सती अस्मिन्नेव जन्मनि त्वां बलादिव बलात्कारेण करे धृत्वा आकर्षति । हे बालिशेऽज्ञे, त्वं पुनः न वलसे नाभिमुखीभवसि । चित्रमित्यर्थः । कर्षतीवेति वा । जन्मान्तरभाविफलार्थे वुधाः शरीरमपि त्यजन्ति, तच्च फलं प्रत्युत त्वत्प्राप्त्यर्थ स्वयमेव साभिलाषं सदस्मिन्नेव जन्मनि एतच्छरीरसहितामेव त्वां स्वसमीपं नेतुमिच्छति, त्वं तु तत्संमुखी न भवसीति मूर्खतरा बालिशेत्यनेन सूचितम् । आग्रहं त्यक्त्वा इन्द्रादिष्वन्यतमं वृणीष्वेति भावः । 'अभे च बालिशः' इत्यमरः । जुह्वति 'अदभ्यस्तात्' इति झेरत् 'हुश्रुवोः-' इति यणादेशः । 'भुवश्च' इतीष्णुचः छन्दस्येव विधानमिति वृत्तिकारादिवचनाद्भाषायां 'भविष्णवे' इति चिन्त्यम् । यद्वा 'भूष्णुर्भविष्णुर्भविता' 'जगत्प्रभोरप्रभविष्णु वैष्णवम्' इत्यादिप्रामाणिकप्रयोगदर्शनाच्च 'भुवश्च' इति चकारं 'भुवश्छन्दसि च' इति संवध्य चकारात् 'भाषायामपि क्वचिद्भवति' इति व्याख्यानात्समर्थनीयम् । गत्यन्तरं वा गवेषणीय[१]म् ॥

'हुताशनोद्वन्धन-' इत्यादि यदुक्तं, तच्छोकत्रयेण दूषयति-

  यदि स्वमुइन्डुमना विना नलं भवेर्भवन्तीं हरिरन्तरिक्षगाम ।

  दिविस्थितानां प्रथितः पतिस्ततो हरिष्यति न्याय्यमुपेक्षते हि कः॥

 यदीति ॥ त्वं नलं विना यदि स्वम् आत्मानं उद्धन्द्धमना भवेः, (ततः) तर्हि [२]अन्तरिक्षगामन्तरालस्थां त्वां ततोऽन्तरिक्षात् हरिरिन्द्रो हरिष्यति नेष्यति । यस्माद्विविस्थितानामन्तरिक्षस्थानां पतिः स्वामी प्रथितः ख्यातः । युक्तमेतत्- का न्याय्यं न्यायादनपेतं स्वीयं भागमुपेक्षते नाङ्गीकरोति । अपितु सर्वोऽप्यङ्गीकरोति । तत इति तर्ह्यर्थे वा । न्याय्यं, 'धर्मपथ्यर्थ-' इति यत्[३]

  निवेक्ष्यसे यद्यनले नलोज्झिता सुरे तदस्मिन्महती द[४] या कृता ।

  [५]चिरादनेनार्थनयापि दुर्लभं स्वयं त्वतैवाङ्ग यदङ्गमर्प्यते ॥ ४७ ॥

निवेक्ष्यस इति ॥ नलेनोज्झितापरिणीता त्वं यदि अनलेऽग्नौ निवेक्ष्यसे आत्मानं


  1. 'अत्र काव्यलिङ्गोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी।
  2. 'अन्तरिक्षगां भवन्तीं अन्तरालस्थां जायमानाम्' इति सुखावबोधा । 'प्रतिज्ञावृत्ते उद्बन्धनप्रतिज्ञा द्वितीया, तथापि, अन्तरिक्षस्येन्द्रस्वामिकत्वादिन्द्रस्य च प्राधान्यात्प्रथमं दूषिता' इति सुखावबोधा
  3. 'अत्र छेकानुप्रासकाव्यलिङ्गार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी
  4. 'दयादृता' इति जीवातौ, 'दया धृता' इति साहित्यविद्यार्यो पाठः ।
  5. 'अर्थितया' इति पाठः साहित्यविद्याधर्याम् ।