पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७३
नवमः सर्गः।

क्षेप्स्यसि, तत्तर्हि अस्मिन्सुरे वह्नौ त्वया महती दया कृता । यद्यस्मात् हे अङ्ग भैमि, अनेनाग्निना चिरादहुकालमर्थनया प्रार्थनयापि कृत्वा दुर्लभमङ्गं त्वयैव स्वयमर्प्यते दीयते । यञ्चिरकालं याचितमपि दुष्प्रापं, तद्दात्रा स्वयमेव यदि दीयते तत्र दयैव निमित्तमिति ज्ञायते । स्वयमेव स्वाङ्गदानात्त्वया गुर्वी दया कृता । तथा च वह्निप्रवेशोऽपि त्वया कर्तुं न शक्यत इति भावः । कस्मिन्कृते कि भविष्यतीति न जानासीत्युपहासः अङ्गेति संवुद्धया सूचितः [१]

  जितंजितं तत्खलु पाशपाणिना विनानलं वारि यदि प्रवेक्ष्यति ।

  तदा त्वदाख्यान्बहिरप्यसूनसौ पयःपतिर्वक्षसि वक्ष्यतेतराम् ॥४८॥

 जितमिति ॥ हे भैमि, यदि त्वं नलं विना पूर्वोक्तदोपादनलमपि विना वारि प्रवेक्ष्यसि वारिप्रवेशलक्षणमन्यं मरणोपायं चेत्करिष्यसि, तर्हि खलु निश्चितं पाशपाणिना वरूणेन जितंजितम् । अतितरां जितमित्यर्थः। संभ्रमे द्विरुक्तिः । अतिदुर्लभस्य चिरेप्सितस्य स्वत एवागमनात्सर्वोत्कर्पेण वृत्तमित्यर्थः । यतः-असौ पयःपतिः तदा त्वयि प्रवि ष्टायां सत्यां त्वदाख्यांस्त्वन्नामकान्स्वीयानसून्प्राणान् बहिरपि वक्षसि । हृदयोपर्यपीत्यर्थः । वक्ष्यतेतरां धारयिष्यतितराम् । इदानीमन्तःकरणे तावञ्चिरकालं वहत्येव, तदानीमालिङ्गनवशाद्वहिरपि वक्ष्यतेतराम् । अतस्तेन जितमित्यर्थः । अत्र पयःपतित्वमेव हेतुः । अयमप्युपायः कर्तुं न शक्य इत्यर्थः । वक्षसि वक्ष्यतेतरामित्यन्वयः । ततो वहिर्योगाभावान्न पञ्चमी । अर्थाच्च वक्षोपेक्षमेव बहिष्ट्वम् । वक्ष्यते, वहेः स्वरितेत्त्वात्तङि स्ये 'हो ढः' इति हस्य ढत्वे 'षढोः कः सि' इति कत्वे 'आदेशप्रत्यययोः' इति षत्वम्[२]

मरणोपायान्तरं च दूषयति-

   करिष्यसे[३]यद्यत एव दूषणादुपायमन्यं विदुषि[४]स्वमृत्यवे ।

  प्रियातिथिः खेन गृहागता कथं न धर्मराजं चरितार्थयिष्यसि ॥ ४९ ॥

 करिष्यस इति ॥ हे भैमि, त्वम् अत एव दूषणात् उद्वन्धनादिमरणे इन्द्राद्यधीना भविष्यामीत्यरसाइषणाद्विदुषी अन्योपायस्फुरणे प्रतिभावती सती स्वमृत्यवे अन्यमुपायं कर्पूरभक्षणादिलक्षणं यदि चेत्करिष्यसे तर्हि स्वेन स्वयमेव गृहान्प्रत्यागता प्रिया प्राणेश्वरी अतिथिरूपा त्वं धर्मराजं यमं कथं न चरितार्थयिष्यसि । कृतार्थे करिष्यसीत्यर्थः। यमगृहे सर्वेणापि गन्तव्यमेव । स्वयं गृहागतायाश्च वरणे न दोषः। तस्माम्मरणे उपायान्तरमपि कर्तुं न शक्यत इति भावः । विदुषः पूर्वोक्तपक्षदूषणे उपायान्तरं स्फुरति । 'गृहाः पुंसि च भूम्न्येव' इत्यमरः[५]


  1. 'अत्र छेकानुप्रासकाव्यलिङ्गालंकारौ' इति साहित्यविद्याधरी । 'अत्र नलालाभे जीवितजिहासोरनलग्रहणबुद्धिग्रहणरूपानर्थोक्तेर्विषमभेदः ।' इति जीवातुः
  2. 'अत्रोत्प्रेक्षाछेकानुप्रासोलंकारः' इति साहित्यविद्याधरी
  3. ’करिष्यते इति ’
  4. विदुषीति मृत्यवे' इति च साहित्यविद्याधरीसंमतः पाठः ।
  5. ’अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी