पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/३९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७३
नैषधीयचरिते

ब्राह्मणादिषु न बलते । अनुरज्यसे, श्यनो ङित्त्वात् 'अनिदिताम्-' इति नलोपः । अन्यतः सप्तम्यर्थे तसि:[१]

  त्वयैकसत्या तनुतापशङ्कया ततो निवर्त्ये न मनः कथंचन ।

  हिमोपमा तस्य परीक्षणक्षणे सतीषु वृत्तिः शतशो निरूपिता ॥ ५५ ॥

 त्वयेति ॥ त्वाद्दगन्यपतिव्रताभावात् एका चासौ सती च तया मुख्यपतिव्रतया त्वया तनोः शरीरस्य तापाद्वाहात् देहदाहमयं करिष्यतीति शङ्कया भिया संतापभिया च तस्मादग्नेः सकाशात् कथंचन केनापि प्रकारेण मनो न निवर्त्ये परावर्तनीयम् । यस्मात् परीक्षणक्षणे साधुत्वासाधुत्वेपरीक्षार्थे दिव्यसमये, स्त्रीणां सहगमनादिसमये, सीतादिपतिव्रतापरीक्षासमये, तस्य[२] अग्नेः वृत्तिः स्थितिः शतशः रामायणादौ हिमोपमा तुषारसदृशी निरूपिता दृष्टा च । त्वं चापि सती । शतशः सतीष्विति वा[३]

 यमवरणे कारणमाह-

  स धर्मराजः खलु धर्मशीलया त्वयास्ति चित्तातिथितामवापितः ।

  ममापि साधुः मतिभात्ययं क्रमश्चकास्ति योग्येन हि योग्यसंगमः।

 स धर्मेति ॥ खलु निश्चये संभावनायां वा । स प्रसिद्धो धर्मराजो यमः त्वया चित्तस्यातिथितां गोचरत्वमवापितः प्रापितोऽस्ति । यतः-धर्मप्रधानं शीलं यस्याः, धर्मे शीलयत्यभ्यस्यति वा एवंभूतया । धर्मशीलो हि धर्मशील एवानुरज्यत इति । अयं क्रम इयं परिपाटी ममापि साधुः समीचिना प्रतिभाति । एतन्ममापि संमतम् । हि यस्मात् कुलशीलादिभिर्योग्येन उत्तमेन सह योग्यस्यैव संगमश्चकास्ति, न त्वयोग्येन योग्यस्य । तस्माद् धर्मराजेन धर्मशीलायाः संबन्धो युक्त इति भावः[४]

  अजातविच्छेदलवैः स्मरोद्भवैरगस्त्यभासा दिशि निर्मलत्विषि ।

  धुत्तावधिं कालममृत्युशङ्किता निमेषवत्तेन नयस्व केलिभिः॥५७॥

 अजातेति ॥ हे भैमि, त्वम् अगस्त्यभासाऽगस्त्यनक्षत्रदीत्या निर्मलत्विषि उज्ज्वलकान्तौ संभोगयोग्यायां दक्षिणस्यां दिशि तेन यमेन सह न जातो विच्छेदलवो वियोगलेशो येषु तैः स्मरोद्भवैः केलिभिः कृत्वा यमस्यैव पतित्वात् अमृत्युशङ्किता मृत्युभयरहिता सती निमेषवत् धुतावधिं निर्मर्यादम् आचन्द्रार्के कालं नयस्वातिवाहय । अन्यवरणे विच्छेदः संभाव्यते, एतद्वरणे तु मरणाभावादाचन्द्रार्के कामसुखमनुभबेति


  1. 'अत्र हेतुसमासोक्त्यलंकारः' इति साहित्यविद्याधरी । 'वाक्यार्थहेतुकं काव्यलिङ्गं व्यक्तमेव' इति जीवातुः ।
  2. अत्र छेकानुप्रासार्थान्तरन्यासालंकारः' इति साहित्यविद्याधरी।
  3. 'अत्र काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी । 'अत्र पूर्ववाक्यस्यैकपत्नीपदार्थहेतुकत्वात्पदार्थहेतुकमेकं काव्यलिङ्गम् । तस्याप्युत्तरवाक्यार्थहेतुकत्वादर्थहेतुकं चेत्यनयोः संकरः' इति जीवातुः ।
  4. अत्र छेकानुप्रासार्थान्तरन्यासालंकारः' इति साहित्यविद्याधरी।