पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४००

एतत् पृष्ठम् परिष्कृतम् अस्ति
३७१
नवमः सर्गः।

दुःसहा रुजः पीडाः सृजति । किंभूतम्-तव आस्यान्निर्यन्निर्गच्छत् इन्द्राद्यनुरागरूपं मदलीकदुर्यशोरूपं मदीयमिथ्यापयशोरूपं मषीमयं मपीप्रचुरं सत् भवत् । अत एव लिपिरूपभागिव लेखनस्वरूपं भजदिव । सती चासौ लिपिश्च तद्द्रूपभाग् वा । कीटो यथा कर्णे प्रविश्य दुःसहां पीडां करोति । अन्यदप्यक्षरं मषीभाजननिर्यन्मषीलिखितं लिपिरूपं [१]भवति ॥

  तमालिरूचेऽथ विदर्भजेरिता प्रगाढमौनव्रतयैकया सखी।

  त्रपां समाराधयतीयमन्यया भवन्तमाह स्वरसज्ञया मया ॥ ६४ ॥

 तमिति ॥ अथ विदर्भजेरिता भैमीप्रेरिता आलिः सखी तं ऊचे । हे दूत, इय संखी भैमी प्रगाढमौनव्रतया दृढतरमौनलक्षणव्रतया एकया स्वस्य रसज्ञया जिह्वया त्रपां समाराधयति भजते, अन्यया मया मद्रूपया स्वेस्य रसज्ञया जिह्वया, अथ च स्वरसं भैम्यभिलाषविषयं जानत्या मया, कृत्वा भवन्तमाह । इयं लज्जावशात्स्वाभिप्रायं त्वां साक्षान्न बोधयति तस्मादेतत्प्रेरिता अहमेतदभिप्रायमेव ब्रवीमि तमाकर्णयेति भावः । मया लक्ष्म्या सह वर्तमानः तत्संबुद्धिः सम । आबन्तं भैमीविशेषणं वा । अन्योऽपि मौनी कांचिद्देवतामाराधयति[२]

 किमाहेत्याह-

  तमर्चितुं मद्वरणस्रजा नृपं स्वयंवरः संभविता परेद्यवि

  ममासुभिर्गन्तुमनाः पुरःसरैस्तदन्तरायः पुनरेष वासरः ॥६५॥

  तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी।

  नखैः किलाख्यायिविलिख्य पक्षिणा तवैव रूपेण समः स मत्प्रियः

 तमिति ॥ तदद्द्योत । मद्वरणस्रजा मदीयवरणमधूकमालया कृत्वा तं नलनामानं नृपमार्चितुं परेद्यवि श्वः स्वयंवरः सम्यग्भविता । एष वासरः पुनः तस्य स्वयंवरस्यान्तरायो विघ्नरूपः। एतावानेव विलम्बोस्ति । किंभूतः-पुरःसरैः पतद्विवसात्पूर्वमेव गन्तुकामैः मम असुभिः प्राणैः सह गन्तुमना जिगमिषुः । अयं दिवसः कथं निर्विघ्नो यास्यतीति चिन्तया मम प्राणा अतिव्याकुलाः। यस्मात् तत्तस्मादद्य विश्रम्य मे मम त्वं दयालुरेधि भव । त्वय्यत्र स्थिते सति मम प्राणा अपि स्थास्यन्तीत्यर्थः। नो चेन्न । तदेवाह- भवद्विलोकिनी भवन्तमवलोकयन्ती सती वर्तमानं दिनं निनीषाम्यतिवाहयितुमिच्छामि । त्वदवलोकनवशात्प्राणधारणात्त्वया मम कृपा कृता भविष्यतीति भावः। परपुरुषविलोकनेन कथं पातिव्रत्यं तवेत्यत आह-किल यस्मात्पतत्रिणा राजहंसेन नलिनीदले नखैर्विलिख्य स मम प्रियो नलस्तवैव रूपेण समस्तुल्यः त्वादृशः सुन्दर आख्यायि क-


  1. 'अत्र रूपकश्लेषोपमालंकारः' इति साहित्यविद्याधरी । 'रूपकोत्प्रेक्षासंकीर्णेयमुपमा' इति जीवातुः
  2. 'अत्र समासोक्तिश्लेषालंकारः' इति साहित्यविद्याधरी।