पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८०
नैषधीयचरित

थितः । तस्मात्तव नलाकारत्वान्नलबुद्ध्यैव त्वदवलोकनान्मम प्राणधारणं त्वद्दर्शनेन पातिव्रत्यक्षतिर्मम नास्तीत्यर्थः । श्लोकद्वयमेकान्वयम् । अर्चितुम्, भौवादिकस्यार्चते रूपम् । 'सद्यः परुत्परारि-' इति परेद्यवीति साधुः। पुरःसरैः 'पुरोग्रतोग्रेषु-' इति [१]टः॥

 अद्य स्थितौ तवापि कार्ये स्यादित्याह-

  दृशोर्द्धयी ते विधिनास्ति वञ्चिता मुखस्य लक्ष्मीं तव यन्न वीक्षते ।

  असावपि श्वस्तदिमां नलानने विलोक्य साफल्यमुपैतु जन्मनः ॥

दृशोरिति ॥ विधिना ब्रह्मणा दैवेन वा तव दृशोः द्वयी नेत्रद्वयी वञ्चितास्ति । कथम्यद्यस्मात् तवैवातिसुन्दरस्य मुखस्य लक्ष्मी शोभां न वीक्षते आत्मना साक्षादित्यर्थः । आदर्शादौ तु प्रतिबिम्बस्यैव दर्शनात् । तत्तस्मादसावपि नेत्रद्वयी श्वो नलानने इमां त्वन्मुखशोभां विलोक्य जन्मनः साफल्यं कृतार्थत्वमुपैतु । सुन्दरवस्तुदर्शनेन नेत्रयोः साफल्यं भवति तस्मादद्यात्र स्थित्वा श्वो नलमुखलक्ष्मीविलोकनान्नेत्रसाफल्यं भविष्यति । त्वन्मुखं नलमुखसदृशमिति भावः । अथ च अहमेव इमां नलानने दृष्ट्वा जन्मसाफल्यं लप्स्ये इति न, किंं त्वसावपि लप्स्त २इत्यपिशब्दार्थः[२]

 कारणान्तरमप्याह-

  ममैव पाणौकरणेऽग्निसाक्षिकं प्रसङ्गसंपादितमङ्ग संगतम् ।

  न हा सहाधीतिधृतः स्पृहा कथं तवार्यपुत्रीयमजर्यमर्जितुम्॥६६॥

समेति ॥ अङ्ग दूत, मम पाणौकरण एव विवाहसमय एव अग्निः साक्षी यस्मिन्नग्निसाक्षिकमग्निसमक्षं संगतं मैत्रम् अर्थान्नलेन सह त्वया प्रसङ्गसंपादितमनायासमर्जितं स्यादिति शेषः । अन्यार्थमागतेनापि त्वयाद्यात्र स्थितेन प्रासङ्गिकी अग्निसाक्षिकत्वाद्दृढा नलेन सह मैत्र्यापि संपादिता स्यात् । तदर्थमप्यत्र स्थातव्यमित्यर्थः । तदीयमैत्र्या मम किं प्रयोजनमित्यत आह-हा खेदे । सहाधीतिधृतो लक्षणया कुलशीलरूपादिना सदृशस्य तव आर्यपुत्रीयं विशिष्टकुलोत्पन्नवीरसेनसुतसंबन्धि अजर्य मैत्रमर्जितुं संपादयितुं स्पृहाभिलाषः कथं न । अभिलाषः कर्तुं युक्तः। सदृशयोर्मैत्री भवति, श्रेष्ठेन सह मैत्री प्रयत्नपूर्वकं संपादनीया, इयं त्वनायासेन लब्धा परित्यक्तुं न युक्तेति भावः। इति भिन्नवाक्यतयाऽन्वयः एकवाक्यत्वे तु संगतं मैत्रम् । अजर्यमविनश्वरमिति अजर्ये विशेषणं संगतशब्दस्येति वा । व्याख्यानान्तरं दुर्योजत्वादुपेक्ष्यम् । पाणौकरण इति 'नित्यं हस्तेपाणावुपयमने' इति पाणावित्येवंरूपस्य निपातस्य गतिसंज्ञत्वात्समासः। आर्यपुत्रीयम्, 'वृद्धाच्छः' । अजर्यम्, नञ्पूर्वस्य जीर्यतेः संगते कर्तरि 'अजय संगतम्' इति निपातनात्साधुत्वम्[३]


  1. 'अत्र पूर्वश्लोके सहोत्तयतिशयोक्तिरलंकारः, उत्तरश्लोके उपमाकाव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र हेत्वतिशयोक्तिरलंकारः' इति 'साहित्यविद्याधरी ।
  3. 'अत्र छेकानुप्रासमलंकारः' इति साहित्यविद्याधरी ।