पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८१
नवमः सर्गः

 पुनर्वागनवसरायाह-

  दिगीश्वरार्थं न कथंचन त्वया कदर्थनीयास्मि कृतोऽयमञ्जलिः।

  प्रसद्यतां नाद्य निगाद्यमीदृशं दृशौ दधे बाष्परयास्पदे भृशम् ॥ ७९ ॥

 दिगिति ॥ त्वया अस्मीत्यहं दिगीश्वरार्थं कथंचन केनापि प्रकारेण तद्वर्णनादिना तेषु मदनुरागाध्यारोपणादिना च न कदर्थनीया न पीडनीया । अयमञ्जलिः कृतः। प्रसद्यता ममोपरि त्वया प्रसन्नेन भूयताम् । अद्य ईदृशं दिक्पालविषयं किंचित् न निगाद्यं वाच्यम् । इदमेव तव प्रसन्नत्वम् । पूर्वोक्तेनैव वाक्येन अहं दृशौ भृशं बाष्परयस्याश्रुवेगस्यास्पदे आधारभूते । अश्रुवेगपरिपूर्णे इत्यर्थः । दधे धारयामि । विवाहोत्सवे विशेषतोऽमङ्गलस्याश्रुपातस्य निषिद्धत्वान्मया चाधःपतनभीत्या नेत्रयोरेव स्ताम्भितत्वात् । अतः परमपि त्वया किमपि न वक्तव्यमित्यर्थः । निगाद्यम्, सोपसर्गत्वात् 'गदमद-' इति [१]यदभावापण्यत् ॥

 पातिव्रत्यप्रौढिप्रकाशनेन दूत्यानवसरं व्यनक्ति-

  वृणे दिगीशानिति का कथा तथा त्वयीति नेक्षे नलभामपीहया।

  सतीव्रतेऽनौ तृणयामि जीवितं स्मरस्तु किंवस्तु तदस्तु भस्म यः॥८०॥

 वृण इति ॥ अहं दिगीशान्वृणे इति का कथा वार्ता । त्वया प्रवर्तिता स्वतःप्रवृत्ता वा ( दिगीशान् ) वृणे इति मनस्यपि न धार्यमित्यर्थः । याहं नलभां नलकान्तिमपि इहास्मिन्पुरोवर्तिनि त्वयि परपुरुषे वर्तमानामिति कारणात् तथा नले इव न ईक्षे न पश्यामि । यद्वा-त्वयि परपुरुषे नलकान्तिमपि तथा नल इव ईहया कटाक्षविक्षेपादि- चेष्टया नेक्षे । तथा अनिर्वाच्ययेहया महतानुरागेण । तथा तादृशीं हंसलिखितदृष्टां नलभामपि नावलोके इति वा । सा दिगीशान्वृणे इति का कथा । एवंविधायाः मम पुरस्तानलसदृशस्यान्यस्य पुरुषस्य कथा कर्तुमयुक्ता, किं पुनर्नलासदृशस्य । देवविषयं किमपि त्वया न वाच्यमित्यर्थः । कुमारिकया कामिन्या त्वया नलप्राप्त्यभावेऽन्योपि वरणीय इत्यत आह-सतीव्रते पतिव्रताव्रतरूपेऽन्नौ, अथ च तीव्रतया सह वर्तमा- नेऽतिदारुणे वह्नौ जीवितं । प्राणानित्यर्थः। तृणयामि तृणवत्करोमि । नलप्राप्त्यभावेऽपि पातिव्रत्याद्यावदायुष्यं जीवितं नेष्यामि, न त्वन्यं वृणे इति दिगीशान्वृणे इति का वार्ता । वह्नौ पतितं तृणं क्षणादेव नश्यति यथा, तथा नलालाभे पातिव्रत्यवशाज्जीवि- तमपीति तृणपदेन सूचितम् । मदनप्राबल्यात्कथमन्यं न वरिष्यसीत्याशङ्कयाह-स स्मरः तु पुनः किं नु वस्तु अस्तु कीदृग्वस्तु भवतु । किमिति-यः कामो हरनेत्राग्नि जनितं तत्प्रसिद्धं भस्म । अभावरूपः पदार्थः किमपि कर्तुं न शक्नोति । कामस्त्वभाव- रूपत्वादन्यस्यापि किमपि कर्तुं न शक्नोति, किं पुनः पतिव्रताया ममेति भावः । यः पुनः स्मरो भस्म, तत्किं वस्त्वस्तु इति वा[२] न्वयः ॥


  1. 'अत्र दैन्यभावोदयालंकारः' इति साहित्यविद्याधरी
  2. 'अत्ररूपकच्छेकानुप्रासरूपालंकारः' इति साहित्यविद्याधरी