पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
नैषधीयचरित

 मदनाधीनत्वे दोषमाह-

  न्यवेशि रत्नत्रितये जिनेन यः स धर्मचिन्तामणिरुज्झितो यया।

  कपालिकोपानलभस्मनः कृते तदेव भस्म स्वकुले स्तृतं तया ॥७१॥

 न्यवेशीति ॥ जिनेन वुद्धेन यो धर्मचिन्तामणिः धर्मरूपश्चिन्तामणिः सम्यग्दर्शनसम्यग्ज्ञान सम्यक्चारित्रलक्षणे रत्नात्रतये न्यवेशि चारित्रशब्दवाच्यो यः प्रक्षिप्तः ( सः) सकलाभिलाषपूरकत्वात्पातिव्रत्यलक्षणधर्मरूपश्चिन्तामणिः यया स्त्रिया कपाली हरः तस्य कोपलक्षणोऽनलोऽग्निः तस्य भस्मनः कामस्य कृते कामनिमित्तं उज्झितः परित्यक्तः, तया स्वकुले तद्भस्म एव स्तृतं विस्तारितम् । धर्मत्यागो नाम स्वकुले भस्मप्रक्षेपतुल्य इत्यर्थः । धर्मद्रोहिना बाह्येनापि यो धर्मोऽङ्गीकृतः स मदनपीडितत्वेन यया परित्यज्यते, तया स्वकुलं सकलङ्कमेव क्रियत इति मदनभीत्या पातिव्रत्यं परित्यक्ष्यामीति दुराशां मा कृथा इति भावः। उन्मत्तेनापि भस्मार्थं चिन्तामणिर्न त्यज्यते, स यया त्यक्तः, तया स्ववंशे भस्मैव क्षिप्तमिति युक्तम् । 'सदृष्टिज्ञानवृत्तानि धर्मं धर्मेश्वरा जगुः' इति बौद्धसिद्धान्ते रत्नत्रयमुक्तम्[१]

  निपीय पीयूषरसौरसीरसौ गिरः स्वकंदर्पहुताशनाहुतीः ।

  कृतान्तदूतं न तया यथोदितं कृतान्तमेव स्वममन्यतादयम् ॥७२॥

 निपीयेति ॥ असौ नलः पीयूषरसस्यौरस्यः पुत्र्योऽमृतरसोत्पन्नाः, तद्वदतिमधुराः, अत एव स्वस्य नलस्य कंदर्प एव हुताशनोग्निस्तस्य आहुतीरुद्दीपिका गिरो निपीय सादरमाकर्ण्य स्वमात्मानं तया भैम्या यथा येन प्रकारेणोदितमुक्तम् कृतान्तदूतं यमदूतं नामन्यत किंतु अयं निष्कृपं स्वं कृतान्तं यममेवामन्यत । अनयोक्तं यमदूतत्वं त्वया प्रकटीकृतमिति, तत्स्वल्पमुक्तम् । किंतु निर्दयत्वाद्यम एवाहमित्यमन्यत । मादृशः कोऽपि निर्दयो नास्तीति स्वात्मानं निन्दितवानित्यर्थः । निर्दयं दूत्ये कृतेपि इन्द्रादिष्वननुरागात्स्वस्मिंश्च तत्सत्त्वात्कामोद्दीपनत्वं युक्तम् । औरसीः उरसा निर्मिता इत्यर्थे 'उरसोण् च' इत्यणन्तान्ङी[२]प् ॥

  स भिन्नमर्मापि तदर्तिकाकुभिः स्वदूतधर्मान्न विरन्तुमैहत ।

  शनैरशंसन्निभृतं विनिश्वसन्विचित्रवाक्चित्रशिखण्डिनन्दनः ॥७३॥

 स इति ॥ तदर्तिः तस्या व्यथा तया व्यथया काकुभिर्दीनवाक्यैः भिन्नमर्माप्युत्पन्नकामोऽपि स नलः स्वदूतधर्मान्न विरन्तुमैहत ऐच्छत । धीरोदात्तत्वात्स्वयमेव वरीतुं नैच्छदित्यर्थः। किं तर्हि चकारेत्याह-निभृतं तया न ज्ञातव्यमिति गुप्तं यथा तथा कामपीडितत्वाद्विनिश्वसन् शनैः पीडितत्वादेव मन्दमशंसदवोचत् । यतः :-विचित्रवाचि नानाविधस्फूर्तियुक्तवाग्विषये चित्रशिखण्डिनन्दनो बृहस्पतिः बृहस्पतिरिव । 'वाचस्पतिश्चित्रशिखण्डिजः' इ[३]त्यमरः ॥


  1. 'अत्रानुप्रासोलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र रूपकातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र विभावनातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी