पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
३८८
नैषधीयचरिते

  भृशं वियोगानलतप्यमान किं विलीयसे न त्वमयोमयं यदि।

  स्मरेषुभिर्भेद्य न वज्रमप्यसि ब्रवीषि न स्वान्त कथं न दीर्यसे ॥ ८९ ॥

 भृशमिति ॥ हे भृशं सुतरां वियोगानलतप्यमान स्वान्त हृदय, त्वं यदि अयोमयं लोहरूपं, तर्हि किं न विलीयसे द्रवीभवसि । वह्निना भृशं तप्यमानं लोहं विलीयते त्वं चेत्तत् , हि किमिति न विलीयसे, न च विलीयसे, तस्माल्लोहादपि त्वमतिकठिनमित्यर्थः। हे स्मरेषुभिर्भेद्य त्वं वज्रमपि नासि । त्वं तु पुष्पबाणैर्भेद्यत्वात्कथं न दीर्यसे न ब्रवीषि अपितु कथयेत्यर्थः । त्वं यदि वज्रमपि नासि तदा त्वं कथं न स्फुटसि तस्माद्वज्रमेव त्वमिति वा । दीर्यसे कर्मकर्तरि [१]तङ् ॥

  बिलम्बसे जीवित किं द्रव द्रुतं ज्वलत्यदस्ते हृदयं निकेतनम् ।

  जहासि नाद्यापि मृषा सुखासिकामपूर्वमालस्यमिदं तवेदृशम् ॥ ९० ॥

 विलम्बस इति ॥ हे जीवित जीव, किं विलम्बसे कालक्षेपं करोषि । अपितु मा कार्षीः। द्रुतं शीघ्रं द्रव गच्छ । अदः ते तव निकेतनं निवासस्थानं हृदयं ज्वलति मदनाग्निना दह्यते । अद्यापि गृहे दह्यमानेऽपि मृषा सुखासिकां सुखासनं निश्चिन्तत्वेनावस्थानं न जहासि त्यजसि। अपितु गृहज्वलनेपि सुखासनरूपमपूर्व लोकोत्तरं तव इदमालस्यम् । अत्यलसोऽप्यन्यो गृहे दह्यमाने सुखासनं हित्वा पलाय्य गच्छति त्वं तु ज्वलत्यपि गृहे बहिर्न निर्गच्छसि, अन्तरेव तिष्ठसि, एतत्तव लोकोत्तरमाश्चर्यकार्यालस्यमित्यर्थः। त्वयि निर्गते मम पीडा न भवेत् , तस्माच्छीघ्रं निर्गच्छेति भावः। आसिकाम् , 'धात्वर्थनिर्देशे ण्वुलू वक्तव्यः' इति ण्वुल्[२]

  दृशौ मृषा पातकिनो. मनोरथाः कथं पृथू वामपि विप्रलेभिरे।

  प्रियश्रियः प्रेक्षणघाति पातकं स्वमश्रुभिः क्षालयतं शतं समाः ॥ ९१ ॥

 दृशाविति ॥ हे दृशौ, पातकिनो लोकानां सर्वदा प्रतारकत्वात्पातकयुक्ताः मनोरथाः पृथू अपि वां मृषालीकेन कथं विप्रलेभिरे वञ्चितवन्तः। युवयोर्नलोऽस्माभिः प्रदर्श्यत इत्यसत्यरूपपातकोपेता वामपीति वा । मृषा व्यर्था वां मनोरथा वा । अतिविशालयोरपि युवयोस्तैः प्रतारणा कृतेत्यनुचितं कृतमित्यर्थः । विप्रलम्भकारणादपि तेषां पातकित्वम् । पातकी अवश्यं परं प्रतारयति । अल्पोपि प्रतारयितुमनर्हः किंपुनर्महानिति, नलदर्शनयोग्यत्वं च पृथू इत्यनेन सूचितम् । अणुत्वान्मनसो मनोरथैः प्रतारणा युक्ता, युवां तु पृथू, अतः प्रतारणाऽनुचितेति वा । इदानीं युवां प्रियश्रियः नलशोभायाः प्रेक्षणधात्यवलोकनविघ्नकारि स्वं स्वीयं सहजं पातकं मनोरथसंसर्गजनितं च शतं समाः यावज्जीवमित्यर्थः। अश्रुभिः क्षालयतम् । यावत्पातकं तावन्नलदर्शनं नेति पातकं सर्वथा निराकुरुतमित्यर्थः । अन्यदपि मलिनमुदकेन क्षाल्यते । नलदर्शनं विना यावज्जीवं रोदनमेव युवयोः प्राप्तमिति भावः । मृषा निष्कारणं क्रीडादिना विना कथं


  1. 'अत्र निश्चयगर्भसंदेहालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र व्यतिरेकालंकारः' इति सा-हित्यविद्याधरी