पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४११

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९०
नैषधीयचरिते

क्संबन्धे सति मम धन्यत्वं स्यादिति भावः । दिशापीति यथास्थितैव वा योजना । 'अङ्गजं रुधिरेऽनङ्गकेशपुत्रमदेऽङ्गजः' इति [१]विश्वः ॥

  अमूनि गच्छन्ति युगानि न क्षणः कियत्सहिष्ये न हि मृत्युरस्ति मे।

  न मां तु कान्तः स्फुटमन्तरुन्झिता न तं मनस्तच्च न कायवायवः ॥ ९४ ॥

 अमूनीति ॥ अमूनि क्षणरूपाणि युगानि गच्छन्ति, न त्वयं क्षणलक्षणः कालः । अमूनि युगानि दुःखरूपाणि गच्छन्ति, न क्षण उत्सवरूपाणि गच्छन्तीति वा । एक एव क्षणो बहुयुगरूपतया गच्छतीत्यर्थः । सोपि न गतो, वर्तत एवेति लटा सूचितम् । कथं युगरूपत्वमित्याशङ्ख्याह-कियत् किंपरिमाणं दुःखमहं सहिष्ये । अपितु तस्यावधिर्नास्तीत्यर्थः । जीवितावधि भविष्यतीत्यत आह-हि यस्मान्मे मृत्युर्नास्ति । ततश्च दुःखावधेरभावात्क्षणस्यापि दुःखरूपत्वं युक्तम् । मरणाभावः कथमित्यत आह-स्फुटं यस्मान्निश्चितं वा कान्तो नलः तु पुनरन्तः स्थूलशरीरमध्ये अहंशब्दवाच्यं मां नोज्झिता न त्यजति । मनः तं नलं न त्यजति । प्राणाख्याः कायवायवः तच्च मनो न त्यजन्ति । एतावत्याः परम्पराया अविच्छेदे कथं मरणं स्यादित्यर्थः । उज्झिता उज्झिष्यतीति वा 'बुद्धीन्द्रियाणि खलु पञ्च तथाऽपराणि कर्मेन्द्रियाणि मनआदिचतुष्टयं च । प्राणादिपञ्चकमथो वियदादिकं च कामश्च कर्म च तमः पुनरष्टमी पूः ॥' इति वचनाल्लिङ्गशरीरस्योपलक्षक मनः । तद्यावल्लिङ्गशरीरम् , तावत्स्थूलशरीरं न त्यजति । जीवे ह्युत्क्रामतीन्द्रियाण्युत्क्रामन्ति, लिङ्गे चोत्क्रामति स्थूलशरीरं षाट्कौशिकं विच्छिद्यते । तथा च श्रुतिः-'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति, प्राणमुत्क्रामन्तं सर्वे प्राणा उत्क्रामन्ति' इति । ततश्च क्षेत्रज्ञस्योत्क्रमणाभावे सर्वेषामनूत्क्रमणाभावान्मरणाभाव इत्यर्थः । अन्तरन्तःकरणे विद्यमानः कान्तो मां न त्यजति, अन्तःकरणं च तं न त्यजतीति वा । यावज्जीवं नलेच्छानपगमान्नलप्राप्त्यभावाच्च क्षणोपि मया दुरतिक्रम इति भावः । उज्झिता, तृच् [२]लुङ्वा ॥

  मदुग्रतापव्ययशक्तशीकरः सुराः स वः केन पपे कृपार्णवः ।

  उदेति कोटिर्न मुदे मदुत्तमा किमाशु संकल्पकणश्रमेण वः ॥ ९५ ॥

 मदिति ॥ हे सुराः, स प्रसिद्वो वो युष्माकं कृपार्णवः केन पपे पीतः। किंभूतः-मम उग्रतापः नलविरहजन्यः तस्य व्यये नाशे शक्तः शीकरो बिन्दुमात्रं यस्य सः। एकोऽर्णवोऽगस्त्येन पीतः, अयं केन पीतः, एतावनिष्कृपत्वं किमिति कुरुथेति कथयतेति भावः । वो युष्माकं संकल्पकणश्रमेणेच्छालेशरूपेण आशु मदुत्तमा मत्सकाशाद्रूपादिभिरुत्तमा सुन्दरी अर्थात्स्त्रीणां कोटिः मुदे युष्माकं प्रीतये किं नोदेति जायते । उदेष्यतितीत्यर्थः। भवतां संकल्पमात्रेण मत्सदृश्यो मदुत्तमाश्च पर:शताः स्त्रियः सुलभा इति कारणान्मदभिलाषनिर्बन्धो न कार्यो भवद्भिः । इयमेव च महती कृपा । स्त्रीलोभान्मां कि संतापयथे[३]त्यर्थः॥


  1. 'अत्रातिशयोक्त्यर्थान्तरन्यासालंकारः' इति साहित्यविद्याधरी
  2. 'अत्राप[तिहेतुदीपकालंकारः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासरूपकहेत्वलंकारः' इति साहित्यविद्याधरी