पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१२

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९१
नवमः सर्गः।

  ममैव वाहर्दिनमश्रुदुर्दिनैः प्रसह्य वर्षासु ऋतौ प्रसञ्जिते ।

  कथं नु शृण्वन्तु सुषुष्य देवता भवत्वरण्ये रुदितं न मे गिरः ॥ ९६ ॥

 ममेति ॥ वा अथवा अहर्निशं प्रत्यहं ममैवाश्रुदुर्दिनः (वा) अविच्छिन्नाश्रुधारारूपमेघच्छन्नैर्दिवसैः प्रसह्य वलाद्वर्षासु ऋतौ वर्षतौ प्रसञ्जिते प्रवर्तिते सति देवता इन्द्रादयो देवाः स्वनिद्राकालत्वात् सुषुप्य सुप्त्वा मे गिरः कथं शृण्वन्तु । अत एव-अरण्ये रुदितं न भवतु मद्वाक्यमिति शेषः । अपि तु भवत्विति काकुः। तेषां निद्रितत्वान्मच्छोकादिवाक्यमरण्यरुदिततुल्यत्वाद्यर्थमेवेत्यर्थः । वर्षर्तुदेवरजनीति ज्योतिःशास्त्रम् । तस्यां च निद्रा युक्ता । यदि मया रोदनं न कृतं स्यात्तर्हि दुर्दिनत्वाभावाद्वरषपतुर्न स्यात् तस्मान्ममैवापराध इत्येवकारेण सूचितम् । वर्षासु ऋतौ 'ऋत्यकः' इति प्रकृतिभावः। सुषुप्य, 'सुविनिर्दुर्व्यः-' इति षत्वम् । अरण्ये रुदितमिव 'क्षेपे' इति समासः 'तत्पुरुषे कृति बहुलम्' इत्यलु[१]क् ॥

 श्लोकचतुष्टयेन नलं प्रति प्रलपति-

  इयं न ते नैषध दृक्पथातिथिस्त्वदेकतानस्य जनस्य यातना ।

  हृदे हृदे हा न कियङ्गवेषितः स वेधसाऽगोपि खगोऽपि वक्ति यः

 इयमिति ॥ हे नैषध नल, त्वदेकनिष्टस्य । त्वदेकजीवनोपायस्येत्यर्थः । मल्लक्षणस्य जनस्य इयं यातना तीव्रवेदना ते दृक्पथातिथिर्न दृग्गोचरो न इति प्रश्नकाकुः । हा कष्टं य इमां मदीयां वेदनां त्वां प्रति वक्ति स खगोऽपि वेधसा ब्रह्मणागोपि आच्छादितः । गोपने हेतुमाह-यतः-ह्रदे ह्रदे कियत्कतिवारं न गवेषितम् अपितु बहुवारमन्विष्टोऽपि न दृश्यते । कुत्रचित्त्वया न गन्तव्यमिति ब्रह्मणा निषिद्धः । कदाचिन्मदीयामवस्थां तुभ्यंचेत्कथयेत्, तदा तव दयोदयो भवेत् स माऽस्त्विति वेधसो वैधय॑मिति भावः । 'एकतानोऽनन्यवृत्तिः' इ[२]त्यमरः ॥

  ममापि किं नो दयसे दयाधन त्वदङ्घ्रिमग्नं यदि वेत्थ मे मनः ।

  निमज्जयन्संतमसे पराशयं विधिस्तु वाच्यः क्व तवागसः कथा ॥ ९६ ॥

 ममेति ॥ हे दयाधन नल, त्वं मम मनो यदि त्वदङ्घ्रिमग्नं त्वञ्चणरशरणं यदि वेत्थ जानासि तर्हि ममापि किं नो दयसे ममाप्युपरि कृपां किं न करोषि दयाघनत्वात्कुर्वित्यर्थः । कृपाऽकरणे तवापराधो नास्तीत्याह-तु पुनः परस्याशयमन्तःकरणं संतमसेऽज्ञाने निमज्जयन्ब्रुडयन् विधिः दैवं वाच्य उपालब्धव्यः तव आगसोऽपराधस्य कथा क्व । तवापराधो नास्ति ममैवादृष्टं तथाविधमित्यर्थः। तवान्तःकरणं हंसनिषेधद्वारा मम दुःखबोधनमकुर्वन्ब्रह्मैवोपालब्धव्यो, न तु त्वमित्यर्थ इति वा । मम 'अधीगर्थ-' इति षष्ठी कर्मणि । संतमसम् , ‘अवसमन्धेश्यस्तमसः' इत्यच्[३]


  1. 'अत्रातिशयोक्तिनिदर्शनालंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र छेकानुप्रासालंकारः' इति साहित्यविद्याधरी।
  3. 'अत्रातिशयोक्तिसममलंकारः' इति साहित्यविद्याधरी।