पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
३९६
नैषधीयचरिते

पाङ्गरथ्यायाः नेत्रप्रान्तमार्गस्य पथिकीं नित्यचारिणीं दृशं च प्रसद्य प्रसन्नीभूय हेलया विलासेन ममोपरि संधेहि । स्मितभ्रूचलनरूपैः प्रसद्य मां सविलासं कृपाकटाक्षर्विलोकयेति भावः। पथिकीम् , 'पथः ष्कन्' षित्त्वान्ङीष् । 'उपर्युपरिष्टात्' इत्यतसर्थत्वादुपरियोगे 'षष्ठयतसर्थ-' इति ममेति ष[१]ष्ठी॥

  समापय प्रावृषमस्रुविप्रुषां स्मितेन विश्राणय कौमुदीमुदः ।

  दृशावितः खेलतु खञ्जनद्वयी विकासि पङ्केरुहमस्तु ते मुखम् ॥ ११२ ॥

 समापयेति ॥ त्वं अविच्छिन्ननावित्वादस्त्रुविप्रुषामस्त्रुबिन्दूनां प्रावृषं समापय । तथा अत्युज्वलत्वादत्याह्लादकत्वाच्च स्मितेन कौमुदीमुदः चन्द्रिकासंबन्धिनो हर्षान्विश्रा- णय मह्यं वितर । तथा-अतिचञ्चलत्वात्खञ्जनाकारत्वाच्च दृशावेव खञ्जनद्वयी इतो मल्लक्षणेऽस्मिञ्जने खेलतु ममोपरि क्रीडतु । तथा-लक्ष्मीस्थानत्वाद्वर्तुलत्वाच्च ते मुखं विकासि विकस्वरं पङ्केरुहं कमलमस्तु भवतु । रोदनं त्यक्त्वा प्रसन्ना भूत्वा स्मितपूर्वकटाक्षविलोकनपूर्वं किंचिद्गृहीति भावः । प्रावृषि गतायां शरदि कौमुदीमुदः खञ्जनक्रीडा कमलविलासश्च भ[२]वति ॥

  सुधारसोड्वेलनकेलिमक्षरस्रजा सृजान्तर्मम कर्णकूपयोः ।

  दृशौ मदीये मदिराक्षि कारय स्मितश्रिया पायसपारणाविधिम् ॥

 सुधेति ॥ हे भैमि, मम कर्णकूपयोरन्तमध्येऽक्षरस्रजा वर्णमालया वाक्यरचनया कृत्वा सुधारसस्यामृतरसस्योद्वेलना निर्मर्यादा या केलिः क्रीडा तां सृज रचय अतिमधुरवागमृतपूर्णौ मम कर्णौ विधेहि । किमपि ब्रूहीति भावः । कूपशब्दोऽत्र जलाशयाभिप्रायः । ततश्च वाप्यादौ स्वादूदकेन यथा तीरमतिक्रम्यते तथा क्रीडा क्रियत इति चोक्तिः । मदयत इति मदिरे उन्मादजनके अक्षिणी यस्यास्तत्संबुद्धिर्हे मदिराक्षि, मदीये दृशौ स्वीयया स्मितश्रिया कृत्वा पायसेन दुग्धसंस्कृतपायसेन कृत्वा या पारणा उपवासानन्तरभोजनं तस्य विधिं कारय । स्मितस्य शुभ्रत्वात्पायसत्वम् । उपोषितस्य पायसपारणया यथा तृप्तिः, तथा त्वदीयस्मितशोभावलोकनेन मन्नेत्रयोरिति स्मितपूर्वं किमपि ब्रूहि । मामनुगृहाणेति भावः । उद्गतो वेलामुद्वेलः, 'अत्यादयः-' इति समासः। तस्य करणमुद्वेलनम् । मदिर इत्यत्र 'इषिमदि-' इत्यादिनौणादिकः किरच्प्रत्ययः। रामायणे-'नार्यो मदिरलोचना' इति । दृशौ, 'ह्रक्रोरन्यतरस्याम्' इत्यणौ कर्तुर्णौ कर्मत्वम् । 'परमान्नं तु पायसम्' इत्यमरः । संस्कृतार्थेऽण्[३]

  ममासनार्धे भव मण्डनं न न प्रिये मदुत्सङ्गविभूषणं भव ।

  अहं भ्रमादालपमङ्ग मृष्यतां विना ममोरः कतमत्तवासनम् ॥ ११४

 ममेति ॥ हे प्रिये, मम आसनार्धे सिंहासनाधैं मण्डनमलंकरणं भव । आसनस्ये.


  1. 'अत्रानुप्रासरूपकोपमालंकारः' इति साहित्यविद्याधरी
  2. ’ 'अत्रातिशयोक्तिरूपकालंकारः' इति साहित्यविद्याधरी।
  3. ’ 'अत्रातिशयोक्तिश्लेषालंकारः' इति साहित्यविद्याधरी।