पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९
प्रथमः सर्गः


लनभ्रंशजुषा निमीलनस्य नेत्रसंकोचस्य भ्रंशोऽभावस्तं जुषतीति निमीलनभ्रंशजुट्र् तया दृशा तं नलं निपीय सादरं दृष्ट्वार्जितः कृतः । अभूस्त्रिदश्यस्तमभ्यासभरं निमेषनिःस्वैः निमेषदरिदैर्लॊचनैरधुनाप्यद्यापि विवृण्वते प्रकटयन्ति । देवाङ्गनानां स्वत एव निर्निमेषत्वं नलावलोकने उपक्षीणमित्युत्प्रेक्षितम् । यदत्यन्तमभ्यस्तं तत्कदापि न विस्मर्यते । त्रिदशीति पुंयोगलक्षणो जातिलक्षणो वा ङीष् ((१))॥

अदस्तदाकर्णि फलाढ्यजीवितं दृशोर्द्धयं नस्तदवीक्षि चाफलम् ।
इति स्म चक्षुःश्रवसां प्रिया नले स्तुवन्ति निन्दन्ति हृदा तदात्मनः॥

अद इति ॥ चक्षुःश्रवसां नागानां प्रियाः स्त्रियो नले नलनिमित्तमात्मनस्तद्दशोयमिति पूर्वोक्तप्रकारेण हृदा मनसा स्तुवन्ति स्म निन्दन्ति स्म च। इतीति किम्--अद इदं नोऽस्माकं दृशोर्द्वयं तदाकर्णि तं नलमाकर्णयतीत्येवंशीलं सत् फलाढ्यजीवितं फलेनाढ्यं जीवितं यस्य । सफलजीवितमित्यर्थः । तदवीक्षि तं नलं न वीक्षते एवंभूतं सत् अफलं निष्फलमिति । पाताले स्थितत्वान्नलाकर्णनं भवति, न तु वीक्षणम् ((२))॥

विलोकयन्तीभिरजस्रभावनाबलादमुं नेत्रनिमीलनेष्वपि ।
अलम्भि मर्त्याभिरमुष्य दर्शने न विघ्नलेशोऽपि निमेषनिर्मितः २९

 विलोकेति ॥ मर्त्याभिर्मानुषीभिरमुष्य दर्शनेऽवलोकने निमेषनिर्मितो नेत्रनिमीलनरचितो विघ्नलेशोऽपि नालम्भि न प्रापि । किंभूताभिर्मानुषीभिः-अजस्रभावनाबलादजस्रं निरन्तरं या भावनां वासना, चिन्तनं वा तद्वशादमुं नलं नेत्रनिमीलनेध्वपि नेत्रसंकोचेष्वपि सत्सु विलोकयन्तीभिः पश्यन्तीभिः । यो हि यं स्मरति स नेत्रगोचराभावेऽपि तमेव पश्यति । मर्त्याभिरिति योपधत्वान्न ङीष् । अलम्भि इत्यत्र 'लभेश्च' इत्यनुवृत्तौ

'विभाषा चिण्णमुलोः' इति नुम्  ((३))॥

इदानीं पतिव्रताव्यतिरिक्तानां सर्वासामपि मुग्धादिक्रमेण नलेऽनुरागमाह-

न का निशि स्वप्नगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम्।
तदात्मताध्यातधवा रते च का चकार वा न स्वमनोभवोद्भवम् ॥

नेति ॥ का स्त्री निशि रात्रौ स्वप्नगतं स्वमप्राप्तं तं नलं न ददर्श, अपितु सर्वापि । का च गोत्रस्खलिते नामव्यत्यये नामभ्रान्तौ तं नलं न जगाद, अपि तु सर्वापि । च परं रते संभोगे तदात्मताध्यातधवा तस्य नलस्यात्मा स्वरूपं यस्य तस्य भावस्तत्ता नलस्वरूपवत्त्वं तया नलस्वरूपेण ध्यातो धवः प्रियो यया सैवंभूता सती का वा स्वमनोभवोद्भवं स्वस्य मदनोद्भूतिं न चकार, अपि तु सर्वापि । स्वप्रिये नलभावं कृत्वा


१ 'अत्रेवादिशब्दानामभावात्तमभ्यासमिव विवृण्वते इति प्रतीयमानोत्प्रेक्षालंकारः । अध्यवसायस्य सिद्धत्वादतिशयो वा' इति साहित्यविद्याधरी । २ 'अत्र गुणक्रियाविरोधालंकारः । जातिश्चतुर्भिर्जात्याद्यैर्विरुद्धा स्याद्गुणस्त्रिभिः । क्रिया द्वाभ्यामथ द्रव्यं द्रव्येणैवेति ते दश ॥' इति साहित्यविद्याधरी। ३ 'अत्र विशेषोक्तिरलंकारः । तथा चालंकारसर्वस्वे-'कारणसामग्र्ये कार्यस्यानुत्पत्तिविशेषोक्तिः' इति साहित्यविद्याधरी ।