पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०१
नवमः सर्गः

न किं पुनरन्यः । मयाऽबुद्धिपूर्वमेवात्मप्रकाशनं कृतमिति भावः । तस्मान्ममापराधो नास्तीत्यर्थः[१]

 इति स्वयं मोहमहोर्मिनिर्मितं प्रकाशनं शोचति नैषधे निजम् ।
 तथाव्यथामग्नतदुद्दिधीर्षया दयालुरागाल्लघु हमहसराट् ॥१२७॥

 इतीति ॥ नैषधे नले स्वयमात्मनैव मोहमहोर्मिनिर्मितं भ्रान्तिबाहुल्यवशात्कृतं निजं स्वीयं प्रकाशनं प्रकटनमिति पूर्वीक्तप्रकारेण शोचति निन्दति सति तद्विपयं पश्चात्तापं कुर्वति सति दयालुः हेमहंसानां राट् राजा तथानिर्वचनीया व्यथा पीडा तस्यां मनश्चासौ स च तस्योद्दिधीर्षयोद्धरणेच्छया लघु शीघ्रमागात्[२]

 नलं स तत्पक्षरवोलवीक्षिणं स एष पक्षीति भणन्तमभ्यधात् ।
 नयादयैनामतिमानिराशतामसून्विहातेयमतः परं परम् ॥१२॥

 नलमिति ॥ स हंसः तस्य हंसस्य पक्षरवः पक्षवातभवः शब्दस्तेन किमेतदायातीतिबुद्ध्या ऊर्ध्ववीक्षिणमुपरिविलोकिनम् , अनन्तरं च इति भणन्तं तं नलमभ्यधादवदत् । इति किम्-कृतमहोपकारः स एवैष पक्षी हंस इति । हे अदय निष्कृप नल, एनां भैमीं निराशतामाशारहिततां अतितरां मा नय मा स्म नैषीः । स्वप्रकाशनकृतस्वनिन्दया मय्यस्यानुरागो न विद्यत इति प्रतीत्या एषा निराशा भविष्यति, तथा मा कार्षीरिति भावः । अस्या निराशत्वे जाते मम किमनिष्टमित्याशङ्क्हयाह-या त्वया निन्दा कृता सा कृतैव, अतः परं चेत्करिष्यति तर्हीयं भैमी परं केवलमसून्प्राणान्विहाता त्यक्ष्यति । स्त्रीवधजन्यं पातकं तव भविष्यति, तस्मादेवं मा कार्षीरिति भावः । अतेरुपसर्गत्वात् 'ते प्राग्धातोः' इति नियमात्पूर्वमेव प्रयोगस्यौचित्येऽपि महाकविप्रयोगाद्यवहितानामपि प्रयोगः साधुः। 'आविश्चक्षुषोऽभवदसाविव रागः' 'विलोलजिह्वायुगलीढोभयसृक्कभागमाविः' इत्यादयः प्रयोगाः। अतिशयिता मा शोभा राजलक्ष्मीर्वा यस्याः सा अतिमा इयमित्यस्य विशेषणम् । एनामनिराशतां नयेत्यन्वयः । हे अतिम अतिशयिता मा शोभा राज्यलक्ष्मीर्वा यस्येति । 'अतिसुन्दरत्वाद्बहुधनत्वाच्च त्वमेवास्या योग्यो नान्यः' इति सूचितम् , इति वा । अतिक्रान्ता माम् अतिसुन्दरी केवलमतः परं प्राणांस्त्यक्ष्यति त्वद्विना । एवंविधं सुन्दरं वस्तु वृथैव यास्यतीति सूचितमिति वा। विहाता लुट्[३]

 सुरेषु पश्यन्निजसापराधतामियत्प्रयस्यापि तदर्थसिद्धये ।
 न कूटसाक्षीभवनोचितो भवान्सतां हि चेतःशुचितात्मसाक्षिका॥

 सुरेष्विति ॥ हे नल, भवान् तेषां देवानामर्थसिद्धये प्रयोजनसिद्धये इयदेतावत्प्रयस्यापि बहुतरं प्रयासं कृत्वेत्यर्थः। सुरेषु देवविषये अनुचितमेतन्मयाकृतमिति निजसापरा.


  1. 'अत्रार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्रातिशयोक्तिच्छेकानुप्रासालंकारः' इति साहित्यविद्याधरी
  3. 'अत्रानुप्रासोलंकारः' इति 'साहित्यविद्याधरी।