पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०४
नैषधीयचरिते

ष्यन्तीत्यर्थः । तव तेष्वनुरागो न । त्वं मामपि स्वकिंकरं कर्तुं ईशिषे, मां स्वीयं दासं कर्तुं त्वमेवेच्छसीत्यर्थः । ममानुरागोऽप्रयोजकः किंतु तव मय्यनुरागः प्रयोजक इति भावः। एवंसति त्वं कार्य करणीयं विचार्य सृज । विचारे कारणमाह-कृतो यः पश्चात्तापः स त्वयि पार्ष्णेः पाश्चात्त्यस्य वैरिणो विग्रहं तद्वत्कलहम् । दुःखमिति यावत् । मुधा वृथा मा विधान्मा कार्षीत् । अविचार्य देवे वृते नलमहं किमिति नावरिषम् , मयि वा वृते कंचन देवं किमिति नावरिषमिति पश्चात्तापस्तव भविष्यति तस्माद्विचार्यैव विधेयं कुर्विति भावः। संधिमकृत्वा बहिर्निर्गते विजिगीषौ पार्ष्णिग्राहो वैरायते। ईशिषे ‘ईशः से’ इतीट् ।मा विधात् , भविष्यति ‘माङि लुङ्’, ‘न माङ्योगे’ [१]इत्यडभावः॥

 उदासितेनैव मयेदमुद्यसे भिया न तेभ्यः स्मरतानवान्न वा।
 हितं यदि स्यान्मदसुव्ययेन ते तदा तव प्रेमणि शुद्धिलब्धये १३५

उदासितेनेति ॥ हे भैमि, उदासितेनैवोदासीनेनैव मया ‘अमी समौहैकपराः-’ इत्यादिना विचार्य सृज इत्येवमिदं मतमुद्यसे, तेभ्यो देवेभ्यो भिया देवान्वृणीष्वेति नोद्यसे । तथा-स्मरेण कृतं स्वस्य तानवं कार्श्यं, तस्माद्वा ‘स्वकिंकरम्’ इत्यादिना मां वृणीष्वेति न वोद्यसे । भियेत्युभयत्र वा योज्यम् । त्वद्धितार्थमेव विचार्य कुर्विति मयोक्तम् । नत्वन्येनाशयेनेति भावः। मया देवे वृते सति मद्वियोगात्त्वन्मृतिरेव स्यादित्याशङ्कायामाह-मदसुव्ययेन मदीयप्राणनाशेन ते तुभ्यं यदि हितं स्यात्, तर्हि मय्येतावन्तं कालं यस्तव प्रेमाऽनुरागः, तस्मिन्विषये एतदेव प्राणत्यजनमेव तव हितमेव वा शुद्धिलब्धय आनृण्यप्राप्तये स्यात् । ममेत्यर्थात् ।-तव हिताय प्राणानपि त्यजामीत्यर्थः॥ मत्प्राणव्ययेन तव हिते जातेऽनृणित्वेन ममैव हितमित्यर्थः । उद्यसे वदेर्यकि यजादित्वात्संप्रसारणम् । ‘उच्यते’ इति च [२]पाठः॥

 इतीरितैर्नैषधसूनृतामृतैर्विदर्भजन्मा भृशमुल्ललास सा।
 ऋतोरधिश्रीः शिशिरानुजन्मनः पिकस्वरैर्दूरविकस्वरैर्यथा १३६

इतीति ॥ सा विदर्भजन्मा ‘ददेपि तुभ्यम्-’ इति ईरितैः पूर्वोक्तैर्नैषधस्य सूनृतामृतैः सत्यवचनामृतैः कृत्वा भृशमुल्ललास हर्षं प्राप। नलत्वनिश्चयात्, तेनात्मन्यनुरागस्य प्रकाशितत्वात् , तेभ्यो न बिभेमीत्युक्तत्वाच्च । 'ईदृशैः' इति पाठे पूर्वोक्तैः इति वक्ष्यमाणप्रकारेणोल्ललासेति योज्यम् । शिशिरं ऋतुमनुलक्षीकृत्य जन्म यस्य ऋतोर्वसन्तस्याधिका श्रीः दूरविकस्वरैरतिविकासिभिः पिकस्वरैः कोकिलालापैः कृत्वा यथा इवार्थः । उल्लसति । पिकस्वरसाम्येन नलवचसां मदनोद्दीपकत्वं सूचितम् । अन्यदपि पीयूषैर्जलैर्वा सोल्लासं [३]भवति ॥ तमेवोल्लासमाह-

 नलं तदावेत्य तमाशये निजे घृणां विगानं च मुमोच भीमजा ।
 जुगुप्समाना हि मनो धृतं तदा सतीधिया दैवतदूतधावि सा ॥


  1. ‘अत्र छेकानुप्रासातिशयोक्त्यलंकाराः’ इति साहित्यविद्याधरी
  2. ‘अत्र छेकानुप्रासातिशयोक्तयुपमालंकाराः’ इति साहित्यविद्याधरी
  3. ‘अत्र छेकानुप्रासोपमालंकारः’ इति साहित्यविद्याधरी।