पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४०६
नषधायचारत

 मयेति ॥ स्वेन आत्मना भाषितः स्वोद्भ्रमस्य स्वभ्रान्तेः विभ्रमाणां विलासानां क्रमो येन, स्वोद्भ्रमविभ्रमयोः क्रमः अये मयात्मा किमनिह्नितीकृतः-' इत्यादिश्लोकपञ्चकोक्तो येन वा सोऽसौ नलः दमस्वसुः इति एतादृशीं भ्रान्तिमसात्खण्डितवान् । इति किम्मयेव नलं संबोध्य 'इयं न ते–' इत्यादि श्लोकचतुष्टयेन नलसंबोधनान्युक्त्वा यव्द्यलापि विलपितम् । असौ नलः तदिदं विलपितं विमृश्य विचार्य मद्बुद्धं मया ज्ञातं स्वमात्मानम् 'अयि प्रिये, कस्य कृते विलप्यते--' इत्यादिसप्तदशभिः श्लोकैराह-अहमनया ज्ञातः तत्किमित्यहं न कथयामीत्यात्मानं कथितवान् , न तु स्वारस्येनेति । भ्रान्तेन मया स्वनाम कथितं, न तु त्वया ज्ञातमिति स्वभ्रान्तिवर्णनव्याजेन ज्ञापयति स्मेत्यर्थः। मदभिलाषजनितवेगभरभ्रान्तेनानेन स्वनामोक्तमिति ज्ञात्वा सा भैमी तुतोषेति भावः। असादिति षोऽन्तकर्मणि 'विभाषा घ्राधेट्-' इति सिचो लुक् । अशादिति पाठेतनू चकारेत्यर्थः । 'शो तनूकरणे' तेनैव सिचो [१]लुक् ॥

  विदर्भराजप्रभवा ततः परं त्रपासखी वक्तुमलं न सा नलम् ।

  पुरस्तमूचेऽभिमुखं यदत्रपा ममज्ज तेनैव महाह्रदे ह्रियः ॥१४१॥

 विदर्भेति ॥ ततः परं नलनिश्चयानन्तरं सा विदर्भराजप्रभवा भैमी त्रपासखी लज्जावती सती नलं वक्तुमलं समर्था नाभूत् । लज्जानुभाववशात्तूष्णीं बभूवेत्यर्थः । यतः-- पुरः आदौ नलत्वनिश्चयात्पूर्वम् अत्रपा निर्लज्जा सती अभिमुखं समक्षं यत् तमूचे, तेनैव समक्षवचनेन हेतुना नलत्वनिश्चयानन्तरं ह्रीयो महाहूदे समुद्रे ममज्ज निमग्ना । लज्जाल्पत्वे किंचिद्वक्तुं शक्यते, इयं तु लज्जासमुद्रे मग्ना वक्तुं समर्था नाभूदिति युक्तमेवेति भावः । सखीपदेन लज्जां क्षणमपि न त्यजतीति सूचित[२]म् ॥

  यदापवार्यापि न दातुमुत्तरं शशाक सख्याः श्रवसि प्रियस्य सा।

  विहस्य सख्येव तमब्रवीत्तदा ह्रियाऽधुना मौनधना भवत्प्रिया ॥

 यदेति ॥ सा भैमी यदा अपवार्यापि जवनिकादिना व्यवधायापि रहस्यपि तिर्यग्वलितं कृत्वा सख्याः श्रवसि कर्णे प्रियस्य नलस्योत्तरं दातुं न शशाक । समक्षं वक्तुमशक्तैव परं व्यवधायापि एनं प्रत्येवं वदेति सखीकर्णेऽपि लगित्वा यस्मिन्काले वक्तुमशक्ताभूत् । तदा तस्मिन्काले सख्येव विहस्य इति तं नलमब्रवीत् । इति किम्-भवत्प्रिया अधुना ह्रिया मौनमेव धनं यस्याः सा मौनिनी वर्तते । चित्रलिखितं पुरःस्थितं च प्रति पूर्वं बहूक्तत्वादिदानीं मौनं व्यर्थमिति अधुनेत्यनेन परिहासः सूचितः। हास्यमप्यत एव कृतम् । अपवार्यापि सखीद्वारेणैव व्यवधायापि परम्परयापीत्यर्थ इति वा[३]

  पदातिधेयाल्लिखितस्य ते स्वयं वितन्वती लोचननिर्झरानियम् ।

  जगाद यां सैव मुखान्मम त्वया प्रसूनबाणोपनिषन्निशम्यताम् ॥


  1. 'अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र विरोधाभासोलंकारः' इति साहित्यविद्याधरी।'
  3. 'अत्रातिशयोक्तिरलंकारः'इति साहित्यविद्याधरी।