पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
नवमः सर्गः ।

 पदेति ॥ हे नल, इयं भैमी लोचननिर्झरानश्रुप्रवाहान स्वयं् स्वहस्तेन चित्रभित्नौ पटे वा लिखितस्य ते तव पदातिथेयान चरणप्राधुणिकान्वितन्वती कुर्वती चरणपतनादिना वियोगजबाष्पनिर्झरेण क्षालनं कुर्वती सती यां प्रसूनबाणस्य कामस्योपनिषदं कामाद्वैतप्रकाशिकां जगाद लिखित्वा प्रत्युवाच सैव प्रसनबाणोपनिषत् मम मुखात्त्वया निशम्यताम् । अनया कामपीडावशात्पूर्वमुक्तं मयोच्यते, न तु स्वस्फूर्त्या । सत्यं मत्या समाकर्णयेत्यर्थः । रहस्यप्रतिपादको ग्रन्थविशेष उपनिषत् । निर्झरपदेनाश्रुबाहुल्यं सूचित[१]म् ॥

  असंशयं स त्वयि हंस एव मां शशंस न त्वद्विरहाप्तसंशयाम् ।

  क्व चन्द्रवंशस्य वतंस मदधान्नृशंसता संभविनी भवादृशे ॥१४४॥

 असंशयमिति ॥ स हंस एव मां त्वद्विरहेणाप्तः प्रातः संशयो जीवसंदेहो यया एवंभूतां त्वयि त्वद्विषये तवाग्रेऽसंशयं निश्चितं न शशंस प्रायशो न कथितवान् । यतः- हे चन्द्रवंशस्य वतंसालंकार नल, भवादशे सौन्दर्यादिगुणयुक्तेऽतिशूरे महाकुलीने च मद्वधान्नृशंसता निर्दयता धातुकता क्व कुतः संभविनी युक्ता ! पूर्वोक्तगुणयुक्तो हि निर्दोषं पुरुषमपि न हन्ति, किं पुनः स्त्रियमित्यर्थः । तस्मात् स एव प्राणपयवसायना त्वद्विरहजन्यांमदीयामवस्थां न कथितवानित्येव निश्चयः,अन्यथा त्वं ता(मा)मन्वग्रहीष्टा एव, तव न कोप्यपराध इति भावः । असंशयम् , अर्थाभावेऽव्ययीभावः । वतंस इति 'वष्टि भागुरि:-' इत्यल्लोपः। भवादृशे 'त्यदादिषु दृश:--' इति कञि 'आ सर्वनाम्नः' [२] इत्यात्वम् ॥

  जितस्तवास्येन विधुः स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः।

  तवेति कृत्वा यदि तज्जितं मया न मोघसंकल्पधराः किलामराः॥

 जित इति ॥ हे नल, त्वया आस्येन विधुर्जितः श्रियाङ्गकान्त्या मरो जितः। तो चन्द्रसरौ मम वधे कुतो हेतोः कृतप्रतिज्ञौ वदेत्यर्थः । त्वदीयमुखकान्तिभ्यामेव त्वयैव वा तयोरपराद्धम् । तौ त्वां त्यक्त्वा निरपराधां मां किमिति पीडयतः, इति कथयति भावः। स्वयमेव हेतुमाशङ्कय वदति-[३]तयोस्तव वा किमपि कर्तुमसमर्थों अहं तव प्रियेति कृत्वा बुद्धया यदि चेन्मां पीडयतः, तर्हि मया जितम् । शकुनग्रन्थिरेव निबद्ध इति भावः । किल यस्मात् अमरा मोघसंकल्पधरा निष्फलमानसकर्मधारिणो न भवन्ति । यन्मनसि धारयन्ति तत्सत्यमेव भवति । तवाहमिति ताभ्यां यत्संकल्पितं, तत्सफलं भविष्यति इति मया जितमित्यर्थः । अतिस्मरातिचन्द्रमुखत्वद्विरहाच्चन्द्रकामौ मां पीइयत इति भावः । अन्योऽपि साक्षाद्वैरिणोऽपकर्तुमशक्तस्तत्संवन्धिनमन्यमपकरोति । यौ त्वदद्वयवाभ्यां जितौ तौ त्वदर्धाङ्गभूतया मया जितावेवेत्यर्थ इति वा [४]


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी '
  2. 'अत्रानुप्रासहेत्वलंकारः' इति साहित्यविद्याधरी
  3. 'मुखश्रियोः'
  4. 'अत्रातिशयोक्तिप्रत्यनीककाव्यलिङ्गालंकाराः । तदुक्तं काव्यप्रकाशे'प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते' इति ॥ इति साहित्यविद्याधरी।