पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४११
नवमः सर्गः।

तेऽपि देवाः तावत् मदनो न भवन्ति, त्वमेव वा भवन्ति । जगति द्वावेव युवां निष्कृपौ युवां विना सकलं जगत् सदयमेव । ते सकृपाः स्वयंवरे कौतुकावलोकनार्थं सुखेनागच्छन्त्विति भावः । त्वं वा नैवेति वा[१] न्वयः॥

  इतीयमालेख्यगतेऽपि वीक्षिते त्वयि स्मरव्रीडसमस्ययानया।

  पदे पदे मौनमयान्तरीपिणी प्रवर्तिता सारघसारसारणी ॥ १५५ ॥

 इतीति ॥ हे नल, (इति सखीवचनम्) अनया भैम्या इयं इति पूर्वोक्तप्रकारेण मयोदिता सरघाभिर्मधुमक्षिकाभिः कृतस्य मधुनः सारस्य श्रेष्ठविभागभूतस्यातिमधुरस्य सारणी नदी प्रवर्तिता । किंभूता-पदे पदे वचने वचनेऽन्तरायकारित्वान्मौनमयान्तरीपिणी मौनरूपद्वीपवती । किंभूतयाऽनया-आलेख्यगते पटादिलिखितचित्रप्राप्ते चित्ररूपेऽचेतनेऽपि वीक्षिते त्वयि विषये स्मरन्नीडयोः कामलज्जयोः समस्या संक्षेपो मिश्रीभावो यस्यां सा तया । कामलज्जावत्येत्यर्थः । कामवशाद्वक्ति, लज्जावशाच्च तूष्णीमास्त इति भावः। नद्यपि स्थाने स्थानेऽन्तरीपिणी भवति । अन्ययापि विषमया समस्यया पदे पदे मौनं भवति । चित्ररूपेऽचेतनेऽपि त्वयि दृष्टेऽनुरागेणोन्मादवशाद्ययैवमुक्तं, तस्याः सचेतनस्य तव साक्षात्कारे जाते सत्यन्यवरणे शङ्कापि कथंकारं कर्तुमर्हा। अपि तु न कथंचित् । तस्मादिन्द्रादिवरणविषयमतःपरं त्वयापि किमपि न वाच्यमिति भावः। 'सरघा मधुमक्षिका' इत्यमरः। सरघाभिः कृतमित्यर्थे 'मक्षिकादिभ्योऽण्' इति प्रकृते 'तद्विशेषेभ्यश्च' इति वार्तिकाद्योगविभागाद्वाण् । सारयति पातयति तीरमिति सारणी । बहुलवचनात्कर्तरि ल्यु[२]ट् ॥

चण्डालस्ते विषमविशिखः स्पृश्यते दृश्यते न
 ख्यातोऽनङ्गस्वयि जयति यः किंनु कृत्ताङ्गुलीकः ।
कृत्वा मिश्रं मधुमधिवनस्थानमन्तश्चरित्वा
 सख्याः प्राणान्हरति हरितस्वद्यशस्तज्जुषन्ताम् ॥ १५६ ॥

 चण्डाल इति ॥ विषमविशिखः कामः ते तव त्वत्संबन्धी चण्डालः किंनु चण्डान्कृरान् शरान् आ समन्ताल्लाति आदत्ते । चण्डालोऽपि विषमविशिखो भवति क्रूरबाणः। अथ च विषेण मीयन्ते इति विषमा विशिखा यस्य । विषलिप्तबाण इत्यर्थः । न स्पृश्यते न दृश्यते । यतः-त्वयि जयति सर्वोत्कर्षेण विद्यमाने । अथ च सौन्दर्येण पराभवितरि। सोऽनङ्ग इति ख्यातः। चण्डालत्वादनङ्गत्वाच्च न स्पृश्यते न दृश्यते । अनङ्गत्वमाह- यतः-कृत्ता छिन्ना कनिष्ठाङ्गुली यस्य छिन्नाङ्गुलीकः । चण्डालो हि च्छिन्नाङ्गुलीको भवतीति चण्डालजातिः। तस्य चण्डालकर्माह-अधिवनस्थानं वनस्थानमध्ये मधुं वसन्तं मिश्रंकृत्त्वा वसन्तेनोद्दीपितः अन्तः हृदयं चरित्वा प्रविश्य, अथ च वनेषु मधु-


  1. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्र छेकानुप्रासातिशयोक्त्यलंकारौ’ इति साहित्यविधाधरी।