पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१२
नैषधीयचरिते

प्रधानं मद्यपं मिश्रं कृत्वा स्वयं पीत्वा गृहमध्ये प्रविश्य, सख्या भैम्याः प्राणान्हरति । सख्या अन्तश्चरित्वेति वा । प्राणगमनपर्यवसायिनीं पीडां करोति, अथ च प्राणानेव मुष्णाति । तत्तस्माद् हरितो दिशः त्वद्यशो जुषन्तां सेवन्ताम् । त्वद्दासेन तेनैवं कृते सर्वदिग्व्यापिनी तव कीर्तिर्भवत्विति सोल्लुण्ठनं वचनम् । त्वय्यनुरागबाहुल्यात्त्वत्प्राप्त्यभावात्त्वद्विषयो मदनः सखीं पीडयतितराम् । ततश्च तवाकीतिर्भवति तस्माद्यथाऽस्याः पीडा शाम्यति, तव चाकीर्तिर्न भवति, तथैव त्वया विधेयम्, न त्वन्यथेति भावः । 'जगति' इति पाठे जगति अनङ्गः ख्यातः। तु पुनः अयि नल, इति प[१]दम् ॥

  अथ भीमभुवैव रहोऽभिहितां नतमौलिरपत्रपया स निजाम् ।

  अमरैः सह राजसमाजगतिं जगतीपतिरभ्युपगत्य ययौ ॥ १५७ ॥

 अथेति ॥ अथ स जगतीपतिः ययौ जगाम । किं कृत्वा-देवैः सह त्वया आगन्तव्यमिति भीमभुवैव भैम्यैवाभिहितां रह एकान्ते उक्तां निजां स्वीयाममरैः सह राजसमाजं स्वयंवरदेशं प्रति गतिमभ्युपगत्याङ्गीकृत्य । किंभूतः-अपत्रपया इन्द्रादिकार्याकरणाल्लज्जया नतमौलिरधोमु[२]खः॥

श्वस्तस्याः प्रियमाप्नुमुद्धुरधियो धाराः सृजन्या रया-
 न्नम्रोन्नम्रकपोलपालिपुलकैर्वेतस्वतीरस्त्रुणः ।
चावारः प्रहराः स्मरार्तिभिरभूत्सापि क्षपा दुःक्षया-
 स्तत्तस्याः कृपयाखिलैव विधिना रात्रिस्त्रियामा कृता ॥ १५६ ॥

 श्व इति ॥ तस्या भैम्याश्चत्वारः प्रहराः सापि एकापि क्षपा चतुःप्रहररूपा रात्रिः वियोगस्य दुःसहत्वात्स्मरार्तिभिः कामपीडाभिः कृत्वा यस्मात् दुःक्षयातिवाहितुमशक्याभूत्, तत्तस्माद्धेतोः विधिना ब्रह्मणा तस्यां भैम्यां कृपयेवाखिला चतुःप्रहरापि रात्रिः, अथ च प्रतिदिनभाविनी सर्वापि रात्रिः, त्रियामा त्रिप्रहरा कृता। रात्रेरेक: प्रहरो हृत इत्यर्थः । आद्यन्तयोश्चतसृषु घटीषु दिनव्यवहारात्रियामेति क्षीरस्वामी। सा रात्रिस्तया महता कष्टेनातिक्रान्तेति भावः। किंभूतायास्तस्याः -श्वः परेद्यवि प्रियं नलमाप्तुं प्राप्तुमुद्धुरोत्कण्ठिता धीर्यस्या उत्सुकायाः । तथा---अस्त्रुणो धाराः (सृजन्त्याः) वियोगवशाद्बाष्पधाराप्रवाहान् रयाद्वेगेन (सृजन्त्याः) विस्तारयन्त्याः॥किंभूता धाराः- नम्रोन्नम्रैरुन्नतानतैः कपोलपाल्याः पुलकै रोमाञ्चैः कृत्वा वेतस्वतीर्बहुवेतसयुक्ताः । रयाद्वा नम्रोन्नम्रत्वम् । नदीष्वपि नम्रोन्नम्रा वेतसा भवन्ति । वेतस्वतीः, 'कुमुद्नडवेतसेभ्यो ङ्मतुप्' इति [३]ङ्मतुप्॥


  1. 'अत्रातिशयोक्तिरलंकारः, मन्दाक्रान्ता वृत्तम्' इति साहित्यविद्याधरी।
  2. 'अत्र सहोत्तयलंकारः, तोटकं वृत्तम्' इति साहित्यविद्याधरी।
  3. 'अत्र छेकानुप्रासातिशयोक्त्युत्प्रेक्षालंकाराः, शार्दूलविक्रीडितम्' इति साहित्यविद्याधरी