पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१५
दशमः सर्गः

मीमुद्दिश्य प्रयाणे विहिते सति ककुभां दिशां विभागाः स्वस्मिन्वर्तिनो वर्तमानाः ने ते जना अनेकजातीया बहुसंख्याका ये जनास्तैः कृत्वा या यन्त्रणा संकटजा तया अर्ति: पीडा ततो विश्रान्तिं सुखावस्थानमायुः । भारराहित्यात्सोच्छ्वासा जाता इत्यर्थः । दिश्यैः, दिगादित्वाद्यत्

  तलं यथेयुर्न तिला विकीर्णाः सैन्यैस्तथा राजपथा वभूवुः ।

  भैमी स लब्धामिव तत्र मेने यः प्राप भूभृद्भवितुं पुरस्तात् ॥ ५ ॥

 तलमिति ॥ ऊर्ध्व[१] विकीर्णा अतिसूक्ष्मास्तिला अपि यथा तलं भूतलं न ईयुरधो न पेतुः, तथा सैन्यैः कृत्वा राजपथा राजमार्गा वभूवुः । सैन्यबाहुल्यादतिसंकीर्णा जाता इति भावः । तत्रातिसंकटेषु राजपथेषु यो भूभृत् राजा पुरस्तादग्रे भवितुं गन्तुं प्राप शशाक स भैमी लब्धामिव लब्धप्रायामिव मेने । एते यावदागच्छन्ति तावत्पुरोगतं मामेव भैमी वरीष्यत इति मेने इत्यर्थः । सर्वोऽप्यहमहमिकयाऽग्रे गन्तुमैच्छदिति भावः। 'तथा पथाऽभावि महीमहेन्द्रै:' इति पाठे राजभिः पथा मार्गेण तथा जातमिति व्याख्ये[२]यम् ॥

  नृपः पुरःस्थैः प्रतिबद्धवर्त्मा पश्चात्तनैः कश्चन नुद्यमानः ।

  यन्त्रस्यसिद्धार्थपदाभिषेकं लब्ध्वाप्यसिद्धार्थममन्यत स्वम् ॥ ६॥

 नृप इति ॥ पुरःस्थैरग्रे स्थितैः मनुष्यादिभिः प्रतिबद्धवर्त्मा तथा पश्चात्तनैः पश्चास्थितैः नुद्यमानः पुरः प्रेर्यमाणः कश्चन नृपः यन्त्रस्थाः तैलाकर्षणयन्त्रस्थाः सिद्धार्थाः सर्षपास्तेषां पदे स्थानेऽभिषेकं लब्ध्वाप्यूर्वाधःस्थितपाषाणनिष्पीडितसर्पपावस्थां लब्ध्वापि स्वमात्मानमसिद्धार्थमकृतकार्यममन्यत । सर्षपपदाभिषिक्तोऽपि सर्षपो न भवतीति विरोधद्योतकोऽपिशब्दः । कथंचिदपि पुरो गन्तुमशक्तत्वाद्भैमीप्राप्तिर्मम न भविष्यतीति मृतप्रायत्वाञ्चातिदुःखितोऽभूदिति भावः । 'दक्षिणापश्चात्पुरसस्त्यक्' इति विशेषविहितेन त्यका ट्युट्युलोर्भाधस्य युक्तत्वात्पाश्चात्यैरिति भाव्यम् । [३] पश्चात्तनैरिति शिष्टप्रयोगदर्शनान्महाविभाषानुवृत्तेर्वा समर्थनीयम्[४]

  राज्ञां पथि सत्यानतयानुपूर्व्या विलङ्घनाशक्तिविलम्बभाजाम् ।

  आह्वानसंज्ञानमिवाग्रकम्पैर्ददुर्विदर्भेन्द्रपुरीपताकाः ॥ ७ ॥

 राज्ञामिति ॥ विदर्भेन्द्रपुरीपताका अग्रकम्पैः कृत्वा राशामाह्वानसंज्ञानमाह्वानसंकेतं ददुरिव । झटित्यायात, विलम्बं मा कार्ष्ट्येत्यादिष्टवत्य इवेत्यर्थः। किंभूतानां राज्ञाम्-पथि स्त्यानतयातिसंकटतया निमित्तभूतया कृत्वा आनुपूर्व्या कृत्वा या विलङ्घना गतिः,


  1. 'अत्रोत्प्रेक्षा गम्या' इति जीवातुः।
  2. 'अत्र छेकानुप्रासोपमालंकारौं' इति साहित्यविद्याधरी।
  3. पश्चात्तन्वन्ति अर्थाद्गमनादीनि पश्चात्तनाः' इति अचा समर्थनीयम्' इति सुखावबोधा !
  4. 'अत्र विरोधाभासोलंकारः' इति साहित्यविद्याधरी।