पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१६
नैषधीयचरिते

तत्राशक्त्या सामर्थ्येन विलम्बभाजाम् । अन्योऽपि विलम्बेन पश्चादायान्तं हस्तादिनाह्वयति । दूरात्कुण्डिननगरीपताकास्तैर्दृष्टा इति भावः । स्त्यानम्, 'स्त्यै शब्दसंघातयोः' इत्यस्य 'संयोगादेरातो धातोः-' इति निष्ठानत्वम् । पूर्वं पूर्वमनुगतोऽनुपूर्वः, तस्य भाव आनुपूर्वी औचितीवत्[१]

  प्राग्भूय कर्कोटक आचकर्ष सकम्बलं नागबलं

  भुवस्तले कुण्डिनगामि राज्ञां तहासुकेश्चाश्वतरोऽन्वगच्छत् ॥८॥

 प्रागिति ॥ कर्कः श्वेतोऽश्वः अटतीत्यटकः हृद्यगतिः सन्प्राग्भूय पुरो भूत्वा उच्चैरतिशयेन भुवस्तले भूपृष्ठे कुण्डिनगामि सकम्बलं नानावर्णकुथसहितं सप्रावरणं च यद् राज्ञां नागबलं हस्तिसैन्यमाचकर्ष । तन्नागबलमश्वतरो वेसरोऽन्वगच्छत् । करिसैन्यस्य पुरस्तात्पश्चाच्चाश्वा गच्छन्तीति सेनारीतिः । अथ च-कर्कोटकः सर्पविशेषः प्राग्भूय पुरस्तात् भूत्वा उच्चैः सकम्बलं कम्बलाख्येन सर्पेण सहितं भुवः तले पाताले स्थितं कुण्डिनगामि वासुकेः यन्नागबलं सर्पबलमाचकर्ष पातालतः कुण्डिनपुरमानीतवान् । अश्वतरनामा सर्पः तन्नागवलमन्वगच्छत् । सर्वं सर्पबलं वृद्धानुक्रमेण कुण्डिनमायातम् । सर्वेपि राजानो वासुकिप्रमुखाः सर्पाश्च स्वयंवरार्थं ससैन्याः कुण्डिनमागता इति भावः । 'कम्बलो नागभेदे स्यात्कुप्यप्रावारयोरपि' इति विश्वः । प्राग्भूय च्व्यन्त (गति) समासत्वाल्ल्यप् । अश्वतरः, पक्षे 'वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे' इति तरप् । 'अधःस्वरूपयोरस्त्री तलं स्यात्'[२] इत्यमरः ॥

  आगच्छदुर्वीन्द्रचमूसमुत्थैर्भूरेणुभिः पाण्डुरिता मुखश्रीः ।

  विस्पष्टमाचष्ट [३]हरिबधूनां रूपं पतित्यागदशानुरूपम् ॥ ९ ॥

 आगच्छदिति ॥ हरिद्वधूनां दिग्वधूनां मुखश्रीः प्रारम्भशोभा मुखशोभा च पतिभिः कृतस्त्यागस्तेन या दशा तस्या अनुरूपं योग्यं रूपं विस्पष्टमाचष्ट । किंभूता--आगच्छन्त्युर्वीन्द्रचमूस्तया समुत्थैर्भूरेणुभिः पाण्डुरिता । स्वप्रियत्यागेनैतादृश्यवस्था स्त्रीणां भवतीति । दिग्वधूनामिन्द्रादयो राजानश्च पतयः। सर्वा अपि दिशो राजशून्याः सैन्यबाहुल्याद्रजोधूसराश्च जाता इति भावः[४]

 पतित्यागमेव विवृणोति-

  आखण्डलो दण्डधरः कृशानुः पाशीति नाथैः ककुभां चतुर्भिः ।

  भैम्येव वृद्धा स्वगुणेन कृष्टैः स्वयंवरे तत्र गतं न शेषैः ॥ १० ॥

 आखण्डल इति ॥ ककुभां चतुर्भिरिति एतत्संज्ञकैः नाथैः तत्र स्वयंवरे गतम्, शेषैरन्यैर्देवैः न । इति किम्-आखण्डल इन्द्रः, दण्डधरः यमः, कृशानुः अग्निः, पाशी व-


  1. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी
  2. 'अत्र श्लेषालंकारः' इति साहित्यविद्याधरी
  3. 'दिशां जनेषु' इति पाठो जीवातुव्याख्यातः ।
  4. 'अत्र रूपकालंकारः' इति साहित्यविद्याधरी