पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४१७
दशमः सर्गः।

रुण इति । किंभूतैरिवेन्द्रादिभिः-भैम्या सौन्दर्यादिना स्वगुणेन बद्धा कृष्परिव । 'यय[१] तदुद्वाहरसान्न शेषैः' इति [२] क्वचित् ॥

 शेषानागमने हेतुमाह-

  मन्त्रैः पुरं भीमपुरोहितस्य तद्वतरक्षं विशति व रक्षः ।

  तत्रोद्यमं दिक्पतिराततान यातुं ततो जातु न यातुधानः ॥११॥

 मन्त्रैरिति ॥ रक्षो राक्षसो भीमपुरोहितस्य मन्त्रैः वेदोक्तः बद्धरक्षं कृतरक्षणं तत्पुरं कुण्डिनं क कथं विशति । अपितु कथंचिदपि न । ततः तस्माद्यातुधानो नैर्ऋतो दिपतिः जातु कदाचित्कथंचिदपि तत्र यातुमुद्यमं नाततान[३]

  कर्तुं शशाकाभिमुखं न भैम्या मृगं गम्भोरुहतर्जितं यत् ।

  अस्या विवाहाय ययौ विदर्भास्तवाहनस्तेन न गन्धवाहः ॥१२॥

 कर्तुमिति ॥ गन्धवाहो वायुस्तेन कारणेनास्या भैम्या विवाहाय परिणेतुं विदर्भाच्न ययौ । यतः-स मृगो वाहनं यस्य । यत् यतः कारणात् मृगं भैम्या अभिमुखं कर्तुं न -किंभूतं मृगम् । भैम्याः दृगम्भोरुहाभ्यां नेत्रकमलाभ्यां तजितं भसितम्। दृगम्भोरुहर्जितत्वाद्भीतस्य मृगस्य गन्तुमसामर्थ्यादन्यस्य वाहनस्याभावात्तेन तत्र न गतमिति भावः । अन्योऽपि तर्जितस्तर्जकसंमुखं गन्तुं न शक्नो[४]ति ॥

  जातौ न विते न गुणे न कामः सौन्दर्य एव प्रवणः स वामः ।

  स्वच्छस्वशैलेक्षितकुन्सबेरस्तां प्रात्यगान्न स्त्रितमां कुबेरः ॥ १३ ॥

 जाताविति ॥ कामो मदनो जातौ प्रवणो न आसक्तो न । तथा-वित्ते द्रव्ये प्रवणो -गुणे प्रवणो न, किंतु स कामः सौन्दर्य एव प्रवणः । यतो वामो वक्रगतिर्मनोहरश्चेति विचार्य स्वच्छे निर्मले स्वशैले कैलासे ईक्षितं कुत्सं कुत्सितं बेरं वपुः नेत्रं वा येन एवंभूतः कुबेरः तां स्त्रितमा नारीश्रेष्ठां प्रत्युद्दिश्य नागात् । 'कन्या वरयते रूपम्' इति कन्याया रूप एव तात्पर्यात् , स्वस्य रूपाभावात् , कन्याया जात्यादावतात्पर्यात्कुबेरः स्वयंवरे नागत इति [५] भावः॥

  भैमीविवाहं सहते स्म कस्मादधैं तनुर्या गिरि[६] जात्मभर्तुः।

  ते[७] नावजन्या विदधे विदर्भानीशानयानाय तयान्तरायः ॥ १४ ॥

 भैमीति ॥ या गिरिजा पार्वती आत्मभर्तुर्हरस्यार्धं तनुः सती (सा) हरकर्तृकं भैमी-


  1. 'यये याते वे लिट्' इति जीवातूक्तिस्तु 'भावे चाकर्मकेभ्यः' इति सूत्रविरुद्धा । 'तत् कुण्डिनपुरम्' इति व्याख्यानं तु युक्तम् ।
  2. 'अत्र लिष्टरूपकोत्प्रेक्षालंकारः' इति जीवातुः
  3. अत्र छेकानुप्रासः काव्यलिङ्गमलंकारः' इति साहित्यविद्याधरी
  4. 'अत्र रूपकातिशयोक्तिकाव्यलिङ्गालंकारसंकरः' इति साहित्यविद्याधरी
  5. 'अत्र काव्यलिङ्गदीपकालंकारः' इति साहित्यविद्याधरी
  6. 'गिरिशस्य गौरी' इति साहित्यविद्याधरीस्थः पाठः
  7. 'ध्रुवं न यान्त्या' इति साहित्यविद्याधरीस्थः पाठः ।