नलेति ॥ सा महेन्द्रादिचतुष्टयी काचिदनिर्वचनीयालीकरूपा मिथ्यास्वरूपा चतुर्नल्यभूत् । किंभूता-दूतीमुखात्स्वस्मिन्विरागमाकर्ण्यापि इति शेषिताशावशिष्टाशा । इति किम्-भैमी नलभ्रमेणाप्यस्मान्कदाचिद्भजेतेति संभावनयेत्यर्थः । नलानुरक्ता भैमी नलभान्त्याऽस्मानपि वृणुयादिति मिथ्याचतुर्नलीरूपा भूत्वा चत्वारोऽपीन्द्रायस्तत्रागता इति [१]भावः॥
[२]प्रयस्यतां तद्भवितुं सुराणां दृष्टेन पृष्टेन परस्परेण ।
[३] नैवानुमेने नलसाम्यसिद्धिः स्वाभाविकात्कृत्रिममन्यदेव ॥ १९ ॥
प्रयस्यतामिति ॥ न सः असः स भवितुं तद्भवितुं नलीभवितुं प्रयस्यतां प्रयत्नं कुर्वतां सुराणां मध्ये अयं नलतुल्यो जातो न वा इति दृष्टेनावलोकितेन । तथा अहं नलतुल्यो जातो न वा, इति कथय इति पृष्टेन परस्परेणान्योन्येन नलसाम्यसिद्धिः परस्परन- लतुल्यत्वसिद्धिः नैवानुमेने नानुमता। त्वं नलसदृशो नाभूः, त्वमपि नलसदृशो नाभूरिति परस्परमूचुरित्यर्थः । यतः -स्वाभाविकात्सहजात् कृत्रिममन्यदेव । सहजस्य कृत्रिमस्य च महदन्तरं यस्मात् , तस्मात्ते नलसदृशा न जाता इति भावः । सुराणां नलसाम्यसिद्धिरिति वाऽन्वयः । 'तद्द्वैतसिद्धिर्न बतानुमेने' इति पाठे-द्वितैव द्वैतम्, प्रज्ञादित्वात्स्वार्थेऽण् । तस्य नलस्य द्वैतं तद्द्वैतं तस्य सिद्धिर्लाभो नानुमेने । बत [४] खेदे ॥
पूर्णेन्दुमास्यं विदधुः पुनस्ते पुनर्मुखीचक्रुरनिद्रमब्जम् ।
स्ववक्त्रमादर्शतलेऽथ दर्शं दर्शं बभञ्जुर्न तथातिमञ्जु ॥ २० ॥
पूर्णेन्दुमिति ॥ ते देवाः पूर्णेन्दु पूर्णिमाचन्द्र पुनः पुनः आस्यं मुखं विदधुः चक्रुः । तथा अनिद्रं विकसितमजब्जं पुनः पुनः मुखीचक्रुः । पूर्वं पूर्णं चन्द्रं मुखीचक्रुः । तमयोग्यमिति ज्ञात्वा पश्चाद्विकसितं कमलम् , तदप्ययोग्यं ज्ञात्वा पुनरपि चन्द्रम् , तदनन्तरं पुनरपि कमलं मुखीचक्रुरिति पुनःशब्दयोरर्थः। अथ एवं कृतेऽपि आदर्शतले दर्पणमण्डले स्ववक्त्रं दर्शं दर्शमादरात्परीक्षकदृष्ट्या दृष्ट्वा बभञ्जुः भग्नीचक्रुः । यतः तथा नलमुखवदतिमञ्जु अतिसुन्दरं नाभूत् । पूर्णचन्द्रविकसितकमलाभ्यामपि नलमुखमतिसुन्दरमिति भावः । दर्शं दर्शम्, 'आभीक्ष्ण्ये णमुल्च' इति णमुल्, ('नित्यवीप्सयोः' इति) द्वित्वं च[५] ॥
तेषां तदा लब्धुमनीश्वराणां श्रियं निजास्येन नलाननस्य ।
नालं तरीतुं पुनरुक्तिदोषं बर्हिर्मुखानामनलाननत्वम् ॥
तेषामिति ॥ तदा नलरूपनिर्माणावसरे निजास्येन नलाननस्य नरेषु ननशोभां लब्धुमनीश्वराणामसमर्थानां तेषां बर्हिर्मुखानां देवानामान्न्त्वं किमग्निमुखत्वं कर्तुं