पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२०
नैषधीयचरिते

अथ च नलाननतुल्याननत्वराहित्यं पुनरुक्तिलक्षणं दोषं तरीतुं परिहर्तुम् अलं समर्थं नाभूत् । 'अग्निमुखा वै देवाः' इति पूर्वं श्रुतिसिद्ध एतेषां वह्निमुखत्वे पुनर्वह्निमुखत्वं पुनरुक्तम्, अथ च पूर्वमपि नलाननतुल्याननत्वराहित्ये सिद्धेऽलीकनलीभवनानन्तरं पुनरपि नलाननत्वराहित्यात्पुनरुक्तमेव जातम् । शब्दच्छलात्पौनरुक्त्यमित्यर्थः । तन्मुखं नलमुखसदृशं कथंचिदपि नाभूदिति भावः । अन्यस्याप्यप्रतिभस्याननं पुनरुक्तिदोषं परिहर्तुं न शक्नोतीत्युक्तिः । 'बहिः कुशहुताशयोः' इति विश्वः[१]

  प्रियावियोगकथितादिवैलाच्चन्द्राच्च राहुग्रहपीडिताते।

  माताद्भवेन स्मरतोऽपि सारैः स्वं कल्पयन्ति स्म नलानुकल्पम्

 प्रियेति ॥ ते देवाः प्रियावियोगेनोर्वशीविरहेण क्वथितादिव ऐलात्पुरूरवसः, तथा-राहुग्रहपीडितादिव चन्द्राच्च, तथा-ध्मातादिव (ईश्वरेणेत्यर्थात्) दग्धादिव स्मरतोऽपि गृहीतैः सारैः श्रेष्ठभागः कृत्वा स्वमात्मानं नलानुकल्पं नलस्य प्रतिनिधिं कल्पयन्ति स्म । प्रियावियोगादयः साराकर्षणोपायत्वेनोत्प्रेक्षिताः । अन्यस्यापि सारः कथनपीडिताग्निदाहादिभिः समाकृष्यते । प्रियावियोगक्वथनरहितैल-ग्रहपीडनरहितचन्द्र-ईश्वरकृतदाहरहितकाम-तुल्यस्य नलस्य त्रिभ्योऽप्यधिकत्वादिति भावः। 'मुख्यः स्यात्प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः' इत्यमरः । 'किलैलात्' इति पाठे किल [२]उत्प्रेक्षायाम् ॥


 ननु भैम्या नले निरतिशयमनुरागं ज्ञात्वा श्रुत्वा चेन्द्रादयो राजानश्च कथं तत्रागता इत्यत आह-

  नलस्य पश्यत्वियदन्तरं तैर्भैमीति भूपान्विधिराहृतास्यै ।

  स्पर्धां दिगीशानपि कारयित्वा तस्यैव तेभ्यः प्रथिमानमाख्यत् ॥

नलस्येति ॥ विधिः ब्रह्मा अस्यै भूपान् इति मनसि धृत्वा आहृत आनीतवान् । इति किम्-भैमी तैः भूपैः सह नलस्य इयत् अन्तरं हस्ताद्यभिनयमात्रेणानिर्वचनीयं विशेषतः पश्यतु । तथा-दिगीशानपि नलरूपधारणद्वारा नलस्य स्पर्धां कारयित्वा तस्यैव नलस्यैव प्रथिमानं तेभ्यो दिगीशेभ्यः आख्यत् । भैमी प्रतीत्यर्थात् । साक्षाद्दर्शनात्तारतम्यं ज्ञायते, नतु परोक्षमिति कारणाद्राजानः समाहृताः । अधिकेन सह स्पर्धा पति यतो दिगीशैर्नलत्वेन विना भैमीप्राप्त्यभावात्तत्प्राप्त्यर्थं नलरूपधारणान्नलाधिनसोक्तमित्यर्थः । उभयेभ्योऽपि नल एवाधिक इति भावः। 'इदमन्तरम्' इन्द्रादिदिगीशान्, ‘हृक्रो:-' इति कर्मत्वम्[३][४][५]

  अभून्महेन्द्रा------------ सकैर्यमाद्यैर्नलं विनाभूद्धृतदिव्यरलैः

  ------------------------------द्रुमैर्द्यौरिव पारिजाते ॥ २४ ॥


  1. अत्रोत्प्रेक्षाहेत्वनुप्रासालंकार प्रास्थित न स्वयंभूः ।
  2. व्यलोकि लोके मुनिभिः
  3. 'अत्र हेतुश्लेषालंकारः' इति साहित्यविद्याधरी इति जीवातुः।
  4. श्रुत्वा निजं भीमजया निराशं दूतीमुख------- २ 'अत्रोत्प्रेक्षादीपकालंकारः' इति सा-त्यविद्याधरीसंमतः ।
  5. ‘अत्र छेकानुप्रासोलंकारः' इति साहित्यविद्याधरी।