सार्वभौमेन तेन ते कथं पूजिता इत्याशङ्क्याह-
चतुःसमुद्रीपरिखे नृपाणामन्तःपुरे वासितकीर्तिदारे । |
चतुरिति ॥ चतुर्णां समुद्राणां समाहारश्चतुःसमुद्री सा परिखा यस्य एवंविधे वासिता वसतिं कारिताः कीर्तय एव दारा यत्र एवंभूते नृपाणामन्तःपुरे भूलक्षणे विषये दानं, दया, सूनृतं प्रियसत्यवचनम् , आतिथेयी अर्घादिपूजा, एवंरूपा चतुष्टयी रक्षणार्थे सौविदल्लाः कञ्चुकिनः । दानादिचतुष्टयेन राज्ञां कीर्तिः परिपाल्यते, नान्यथेति हेतोः प्रभुणापि तेन कीतिरक्षणाय सपर्यादिभिः परितोषिता इति भावः । 'औदार्यदाक्षिण्यदयादमानाम्' इति च पाठः । अन्यत्राप्यन्तः पुरे परिखा भवति, दाराश्च तिष्ठन्ति, रक्षकाश्च [१]भवन्ति ॥
अभ्यागतैः कुण्डिनवासवस्य परोक्षवृत्तेष्वपि तेषु तेषु । |
अभ्यागतैरिति ॥ अभ्यागतैः समागतैरतिथिभूतैर्वा नृपैः कुण्डिनवासवस्य भीमस्य तेषु तेषु परोक्षश्वप्रत्यक्षेष्वनिर्वचनीयेषु परस्परेणाज्ञातषु वृत्तेषु प्रियोक्तयाद्याचरणष्वपि विषये, परोक्षं वृत्तेषु निष्पन्नेषु प्रियोत्यादिषु वा स्वल्पोऽपि विशेषः प्रियोक्तादौ तारतम्यं नालम्भि न प्राप्तः । किंभूतः-जिशासितस्य ज्ञातुमिष्टस्य स्वेप्सितस्य भैमीलक्षणस्य लाभः प्राप्तिः, तस्य चिह्नम् । अनेनैतस्य मदपेक्षया प्रियोक्त्यादि सादरं कृतं तर्हि भैमीमेतस्मै दास्यतीति विशेषतः कस्यानेन महानादरः क्रियत इति जिज्ञासायां विशेषस्तैन बुद्ध इत्यर्थः । प्रत्यक्षं यस्य प्रियोक्त्यादि कृतं तत्र विशेषो न प्राप्तः, किं पुनः परोक्षवृत्तेष्वित्यपिशब्दार्थः । सर्वेषामपि पूजादि सममेव कृतमिति भैमी ममैव भविष्यतीति सर्वेऽप्यमंसतेति भावः। 'जिज्ञासितः' सविसर्गोपि पाठः क्व[२]चित् ॥
विदर्भेन्द्रपुरस्य शङ्के न संममौ नैष तथा समाजः । |
अतः इति ॥ पयोराशिरगस्त्यहस्ते यथा ममौ, यथाचा मुरारेर्जठरे जगत्त्रैलोक्यं, तथा मध्ये एष समाजो राजसङ्घो नाधिक इचिति न किंतु तथैव संममा- स्तत्त्वम्[३] ।
अभून्म मकैर्यमाद्यैर्नलं विनाभूद्धृतदिव्यराछयव । |