पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४२६
नैषधीयचरित


नारीणामहमहमिकया परस्परेर्ष्यावशात्कलुषाः कटाक्षा निपेतुः। सर्वाभिः स्त्रीभिरप्य- नुरागवशात्कटाक्षैर्दृष्ट इति भावः। 'प्राग्दृष्टयः' इत्यपि पाठः[१]

 सुधांशुरेष प्रथमो भुवीति स्मरो द्वितीयः किमसावितीमम् ।
 दस्रस्तृतीयोऽयमिति क्षितीशाः स्तुतिच्छलान्मत्सरिणो निनिन्दुः ॥

 सुधांशुरिति ॥ प्रश्नार्थस्य काक्वर्थस्य किमः प्रत्येकं संबन्धः। भुवि एष प्रथमो नूतनो- ऽवतीर्णः द्वितीयः सुधांशुः किमिति, तथा -भुवि असौ द्वितीयः स्मरः किमिति, तथा- भुवि अयं तृतीयो दस्रो नासत्यः किमिति, स्तुतिच्छलान्मत्सरिण ईर्ष्यासहिताः क्षितीशा राजानः (केचन स्तुतिव्याजात्) इमं नलं निनिन्दुः । किमः प्रश्नार्थत्वात्तुष्टुवुरित्यर्थः । अपरे मत्सरित्वात्किमः काकर्थत्वादयं सुधांशुः किम् । अपितु न भवतीति निनिन्दुः। एवं सर्वत्र । एकेन भुव्ययं द्वितीयश्चन्द्र इति स्तुतौ कृतायामपरेणेर्ष्यावशाद्भुवि द्वितीयचन्द्रस्यासंभवान्नायं चन्द्र इति प्रतिषेधतो निन्द्यते स्मेति भावः । 'मत्सरोऽन्यशुभद्वेषे' इत्यमरः । प्रश्नपक्षे-किं निनिन्दुरिति वा योजनां [२]

 आद्यं विधोर्जन्म स एष भूमौ द्वैतं युवासौ रतिवल्लभस्य।
 नासत्ययोर्मूर्तितृतीयतायमिति स्तुतस्तैः कृतमत्सरैः सः ॥

 आद्यं विधोरिति ॥ द्वयोर्भावो द्विता, द्वितैव द्वैतम् । अयं श्लोको गतार्थत्वात्पुनरुक्तः[३]

 मायानलोदाहरणान्मिथस्तैरूचे समाः सन्त्यमुना कियन्तः ।
 आत्मापकर्षे सति मत्सराणां द्विषः परस्पर्धनया समाधिः॥४२॥

 मायेति ॥ तं नलमसहमानैस्तै राजभिर्मिथः परस्परमित्यूचे । इति किम्-मायान- लोदाहरणादिन्द्राद्यलीकनलदृष्टान्तेनामुना नलेन समास्तुल्याः कियन्तो बहवः सन्ति । एतेन तुल्या अन्येऽपि बहवोऽत्र विद्यन्ते, एतमेव पुनः पुनः किमिति वर्णयथेति । अन्येषां तत्तुल्यत्वे स्वस्योत्कर्षः कथमित्याशङ्कायामाह-मत्सराणामीर्ष्यावतां द्विषः सकाशादात्मापकर्षे सति आत्मनो न्यूनत्वे सति शत्रोः परेण कृता या स्पर्धना तुल्यता तया समाधिः समाधानं परिहारो भवति । मत्सरिणामात्मापकर्षमविचार्य शत्रोः परेण तुल्यत्वप्रतिपादनात्स्वीयापकर्षपरिहारो भवति । अतिसुन्दरतया तस्यैव भैमीप्राप्तिसंभावनया सर्वेपि तं न सहन्ते स्मेति भावः । 'परस्पर्धितया' इति पाठे परः स्पर्धी यस्य तस्य भावस्तत्तेति व्याख्येयम् । 'इहेदृशाः सन्ति कतीति दुष्टैर्दृष्टान्तितालीकन लावली तैः' इत्यपि पाठः स्पष्टार्थः । मत्सरशब्दोऽर्शआदिर्द्रष्टव्यः । स्पर्धनं स्पर्धेति घञन्तात् 'तत्करोति' इति ण्यन्तात्स्रियां भावे युच् [४]


  1. 'अत्र जातिभावोदयालंकारः' इति साहित्यविद्याधरी
  2. 'अत्रापह्नुतिसंदेहालंकारः' इति साहित्यविद्याधरी
  3. अत एव साहित्यविद्याधरीसुखावबोधयोर्न व्याख्यातः ।
  4. 'अत्रार्थान्तरन्यासजात्यलंकारः' इति साहित्यविद्याधरी