पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३१
दशमः सर्गः।

  प्राशंसीति संसद्गुरुणापि चार्वी चार्वाकतासर्वविदूषकेण ।

  आस्थानपट्टं रसनां यदीयां जानामि वाचामधिदेवतायाः॥ ५७॥

 प्राशंसीति ॥ चार्वी सुन्दरा संसत् सभा गुरुणा बृहस्पतिनापि प्राशंसि । किंभूतंन-चार्वाकतया नास्तिकतया सर्वस्य वेदादेर्विदूषकेन स्रण्डकेन । अहं यदीयां रसनां जिह्वां वाचामधिदेवतायाः सरस्वत्या आस्थानपट्टं सिंहासनं जानामि मन्ये । तस्य जिह्वाग्रे सरस्वती जागर्ति । नास्तिकप्रतारणार्थं बृहस्पतिना चार्वाकशास्त्रं प्रणीय वेदादि दूषितम् ॥

  नाकेऽपि दीव्यत्तमदिव्यवाचि वचःस्रगाचार्यकवित्कविर्यः ।

  दैतेयनीतेः पथि सार्थवाहः काव्यः स काव्येन सभामभाणीत॥।५८॥

 नाकेपीति ॥ स काव्यः शुक्रः दोषरहितप्रवन्धरूपेण काव्येन कृत्वा तां सभामभाणीदवर्णयत् । स कः-यः कविः प्रबन्धकर्ता दीव्यत्तमा विराजमाना दिव्या संस्कृतवाग्यस्मिन्नेवंभूतेऽपि नाके स्वर्गे वचःस्रजि वचनमालागुम्फने विषये आचार्यकं संस्कृतवचनचातुर्योपदेशः तं वेत्ति वित् । तथा-दैतेयनीतेः दैत्यनीतिशास्त्रस्य पथि मार्गे सार्थवाहः मार्गप्रदर्शकः । दैत्यनीतिशास्त्रप्रवर्तकः सुरासुरमध्ये श्रेष्ठतम इत्यर्थः । आचार्यकम् , योपधाद्भुञ् । दैतेय इति 'कृदिकारात्-' इति ङीषन्तात् 'स्त्रीभ्यो ढक्. समर्थनीयः[१]

 तदेव सभावर्णकं काव्यमाह-

  अमेलयभ्दीमनृपः परं न नाकर्षदेतान्दमनस्वसैव ।

  इदं विधातापि विचिन्य यूनः स्वशिल्पसर्वस्वमदर्शयन्नः ॥ ५९॥

 अमेलयदिति ॥ भीमनृपः परं केवलमेतान्नृपान्भैमीस्वयंवरार्थं नामेलयत् । तथादमनस्वसैव एतान्केवलं स्वगुणशीलादिना नाकर्षत् । किंतु विधातापि इदं स्वयंवरप्रस्तावादिकं विचिन्त्य स्वशिल्पसर्वस्वं स्वीयनिर्माणकौशलसारभूतानेतान् यूनस्तरुणानेकत्र स्थाने पुञ्जीकृत्य नोऽस्माकमदर्शयत्[२]

  एकाकिभावेन पुरा पुरारिर्यः पञ्चतां पञ्चशरं निनाय ।

  तद्भीसमाधानममुष्यं कायनिकायलीलाः किममी युवानः॥६०॥

 एकेति ॥ यः पुरारिः हरः पुरा पूर्वमेकाकिभावेनासहायत्वेन पञ्चशरं कामं पञ्चतां निनाय मारयामास । अमुष्य कामस्य कायनिकायलीलाः शरीरसमूहकान्तयः अमी युवानस्तरुणाः तस्माद्धरात् भियो भयस्य समाधानं प्रतीकारः किं वितर्के । असहायत्वात्पूर्वं कामस्य हराद्भयमभूत् । इदानीमेतद्रूपेण बहुत्वाद्भयं गतम् । सर्वेऽप्येते कामरूपा इति भावः[३]


  1. अत्रानुप्रासातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी।
  2. 'अत्रातिशयोक्त्युत्प्रेक्षालंकारः' इति साहित्यविद्याधरी ।
  3. 'अत्र छेकानुप्रासोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी ।