तञ्चिन्तनानन्तरमेव देवः सरस्वती सस्मितमाह स स्म ।
स्वयंवरे राजकगोत्रवृत्तवक्रीमिह त्वां करवाणि वाणि ॥ ६९ ॥
तदिति ॥ स देवो विष्णुः तेन भीमेन कृतस्य स्वचिन्तनस्यानन्तरमेव सस्मितं सरस्वतीमिति प्राह म उवाच ! इति किम्-हे वाणि सरस्वति, अहं त्वामिह स्वयंवरे राजकं राजवृन्दं तस्य गोत्रवृत्तवक्रीं कुलनामशीलादिवर्णयित्रीं करवाणि । राजवर्णनार्थं त्वया गन्तव्यमिति मम मनीषितम् । राजकम्, 'गोत्र-' इति बुञ्[१] ॥
कुलं च शीलं च बलं च यूनां जानासि नानाभुवनागतानाम् ।
एषामतस्त्वं भव वावदूका मूकायितुं कः समयस्तवायम् ॥ ७०॥
कुलमिति ॥ हे सरस्वति, त्वं नानाभुवनेभ्य आगतानामेषां यूनां कुलं च शीलं च बलं च यतो जानासि अतस्त्वमेव तेषां वावदूका अतितरां वर्णनशीला भव । तव मूकायितुमयं कः समयोऽवसरः। अपितु न कोऽपि । एषां कुलादि वर्णयेत्यर्थः । चाः परस्परसमुच्चयार्थाः।[२] 'वदेश्च' इति वार्तिकेन वदेर्यङ्लुगन्तादूकः। 'वावदूकस्तु वक्तरि' इति क्षीरस्वाभी[३] [४] ॥
जगत्रयीपण्डितमण्डितैषा सभा न भूता च न भाविनी च ।
राज्ञां गुणज्ञापनकैतवेन संख्यावतः श्रावय वाङ्भुखानि ॥ ७१ ॥
जगदिति ॥ हे सरस्वति, यस्माजगत्रयीसंबन्धिभिः पण्डितैर्मण्डिता एषा सभा पूर्वं न च भूता, पश्चात् न च भाविनी जनिष्यते । तस्माद्राज्ञां गुणानां ज्ञापनं बोधनं तस्य कैतवेन व्याजेन संख्यावतः पण्डितान्वाङ्भुखानि उपन्यासाञ्श्रावय। 'उपन्यासस्तु वाङ्भुमुखम्' इत्यमरः । 'संख्यावान्पण्डितः कविः' इति च। शब्दकर्मत्वात्संख्यावत इति
इतीरिता तच्चरणात्परागं गीर्वाणचूडामणिमृष्टशेषम् ।
तस्य प्रसादेन सहाज्ञयासावादाय मूर्घ्नादरिणी बभार ॥ ७२ ॥
इतीति ॥ इति पूर्वोक्तप्रकारेण विष्णुना ईरितोक्ता असौ सरस्वती गीर्वाणानां देवानां चूडामणयो मुकुटरत्नानि तैर्मृष्टः प्रोञ्छितश्चासौ शेषोऽवशिष्टश्च तम् , तच्चरणाद्विष्णुचरणात्परागं रेणुं तस्य विष्णोराज्ञारूपेण प्रसादेन(सह) मूर्धा आदाय आदरिण्यादरयुक्ता सती बभार । नमस्कारपूर्व महान्प्रसाद इत्याज्ञामङ्गीचकारेति भावः। परागपदेन रूढ्या चरणस्य पनत्वं सूचितम्[५] ॥
- ↑ 'अत्रानुप्रासोपमालंकारः' इति साहित्यविद्याधरी।
- ↑ इदं वार्तिकं न कुत्राप्युपलभ्यते । अत एव कुर्वादिगणे वावदूकशब्दपाठाद्यङन्ताद्वदेरूकः' इति माधवेनोक्तम् ।
- ↑ 'अत्र छेकानुप्रासकाव्यलिङ्गालंकारः' इति साहित्यविद्याधरी ।
- ↑ अत्र ‘हेत्वपहृत्यलंकारः' इति साहित्यविद्याधरी ।
- ↑ 'अत्रानुप्राससहो- त्यलंकारः' इति साहित्यविद्याधरी