पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५६

एतत् पृष्ठम् परिष्कृतम् अस्ति
दशमः सगः।

  मध्येसभं सावततार बाला गन्धर्वविद्याधरकण्ठनाला ।

  त्रयीमयीभूतवलीविभङ्गा साहित्यनिवर्तितदृक्तरङ्गा ॥ ७३ ॥

 मध्येसभमिति ॥ सा सरस्वती वाला सती मध्येसभं सभामध्ये अवततार । बालस्त्रीरूपं धृत्वा तत्रागतेत्यर्थः । किंभूता-गन्धर्वविद्याया गीतविद्याया धरः कण्ठनालो यस्याः सा । गानप्रवीणकण्ठनालेत्यर्थः । तथा-त्रयीमयीभूतवलीविभङ्गा ऋक्सामयजूरूपत्रिसंख्यामयस्त्रयीमयः अत्रयीमयः त्रयीमयीभूतो वलीविभङ्गो वीरचना यस्याः। तथा-साहित्येन महाकाव्यनाटकचम्पूप्रभृतिना शुक्लनीलरक्तवर्णसाहित्येन मेलनेन वा निर्वतिता निर्मिता अतिसलक्षणा दक्तरङ्गाः कटाक्षविक्षेपा यस्याःसा। कण्ठस्य नालत्वेन मुखस्य पद्मत्वं व्यङ्ग्यम् । गन्धर्वाश्च विद्याधराश्च तद्रूपं कण्ठनालं यस्या इति वा[१]

 वेदादिविद्यामयं सरस्वतीस्वरूपं वर्णयति-

  आसीदथर्वा त्रिवलित्रिवेदीमूलाद्विनिर्गत्य वितायमाना।

  नानाभिचारोचितमेचकश्रीः श्रुतिर्यदीयोदररोमरेखा ॥ ७४ ॥

 आसीदिति ॥ अथर्वा श्रुतिः यदीया सरस्वतीसंबन्धिनी उदररोमरेखा उदररोमावली आसीत् । किंभूता-तिसृणां वलीनां समाहारस्त्रिवलि । त्रिवलिरूपा या त्रिवेदी तल्लक्षणान्मूलाद्विनिर्गत्य ब्रह्मणा विनिर्गमय्य वितायमाना विस्तार्यमाणा । तथा--नानाऽभिचारैः अनेकमारणोच्चाटनाद्यभिचारैः कृत्वा उचिता पापबाहुल्यात् योग्या मेचका श्रीः शोभा यस्याः सा । अथ च -अनाभिचारोचितमेचकश्रीन भवति, किं तु नाभिसंचरणोचितमेचकश्रीः । अथर्वणः श्यामत्वं पुराणप्रसिद्धम् । अभिचारकर्तृत्वं च । विनिर्गत्येत्यत्रान्तर्भावितण्यर्थो ज्ञेयः । वितायमाना, 'तनोतेर्यकि' इत्यात्व[२]म् ॥

  शिक्षैव साक्षाञ्चरितं यदीयं कल्पश्रियाकल्पविधिर्यदीयः।

  यस्याः समस्तार्थनिरुक्तिरूपैर्निरुक्तिविद्या खलु पर्यणंसीत् ॥७५॥

 शिक्षेति ॥ यदीयं चरितमाचरणं वर्णानां स्थानोच्चारणबोधकं नारदादिप्रणीतं शिक्षैव पर्यणंसीत्परिणतस् । यदीयं चरितम् (इत्यर्थः । अथ) शिक्षैव साक्षाल्लोकस्य हितोपदेश एवेत्यर्थः । कल्प इतिकर्तव्यताबोधको ग्रन्थस्तस्य श्रिया कृत्वा यदीय आकल्पविधिरलंकारविधिः पर्यणसीत्परिणतः। यदीयान्यलंकरणानि कल्पेनैव रचितानीत्यर्थः। तथा यस्याः समस्तार्थानां सकलाभिधेयानां निरुक्तिरूपैः निर्वचनस्वरूपैः कृत्वा वेदश्रोत्रस्थानीया निरुक्तिविद्या पर्यणंसीत्परिणता । खलु निश्चयार्थः सर्वत्र योजनीयः[३]

  जात्या च वृत्तेन च भिद्यमानं छन्दो भुजद्वन्द्वमभूद्यदीयम् ।

  श्लोकार्धविश्रान्तिमयीभविष्णुपर्वद्वयीसंधिसुचिह्नमध्यम् ॥ ७६ ॥


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. 'अत्र रूपकश्लेषालंकारः' इति साहित्यविद्याधरी ।
  3. 'अत्र छेकानुप्रासातिशयोक्त्यलंकारः इति' 'साहित्यविद्याधरी