पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४३६
नैषधीयचरिते

 जात्येति ॥ जात्या मात्रावृत्तेन वृत्तेन वर्णवृत्तेन च भिद्यमानं द्विधाभूतं वेदचरणस्थानीयं छन्दः यदीयं भुजद्वन्द्वमभूत् । किंभूतं छन्दः-श्लोकार्धे विश्रान्तिः अवसानं तद्रूपो भविष्णुः श्लोकार्धविश्रान्तिमयीभविष्णुः पर्वद्वयीसंधिः पूर्वोत्तरपर्वद्वयसंधिः स एव सुचिह्नं मध्ये यस्य । यस्या भुजपर्वद्वयीसंधिरेखाद्वयं श्लोकार्धयोविच्छेद्योतकेन रेखाद्वयेनैव रचितमित्यर्थः[१]

  असंशयं सा गुणदीर्घभावकृतां दधाना विततिं यदीया।

  विधायिका शब्दपरम्पराणां किं वारचि व्याकरणेन काञ्ची ॥७७॥

 असंशयमिति ॥ किंच अन्यच्च सातिप्रसिद्धा यदीया काञ्ची मेखलासंशयं निश्चितं वेदमुखभूतेन व्याकरणेनारचि रचिता । किंभूता-गुणस्य पट्टसूत्रस्य दीर्घभावेन दैर्ध्येण कृतां विततिं विस्तारं दधाना । तथा-शिञ्जितरूपाणां शब्दपरम्पराणां विधायिका । व्याकरणमपि-गुणाश्च दीर्घाश्च भावाश्च कृतश्च एतेषां विततिं दधानम् । भावा भावप्रत्ययाः, कृतः कृत्संज्ञकाः प्रत्ययाश्च । तथा-शब्दानां रामकृष्णादीनां भवत्यादिशब्दपरंपराणां च विधायकं साधकम् । अर्थवशाद्विभक्तिवचनविपरिणामः[२]

  स्थितैव कण्ठे परिणम्य हारलता बभूवोदिततारवृत्ता।

  ज्योतिर्मयी यद्भजनाय विद्या मध्येङ्गमङ्केन भृता विशङ्के॥७८॥

 स्थितेति ॥ ज्योतिर्मयी ज्योतीरूपा ग्रहनक्षत्रादिचारसहिता विद्या यद्भजनाय यस्या देव्याः सेवनाय कण्ठे स्थितैव परिणम्य रूपान्तरं प्राप्य हारलता बभूवेत्यहं विशङ्के। किंभूता-उदितमुक्तं तारं तारासंबन्धि वृत्तं शुभाशुभफलकथनरूपं यस्याम् । तथा-मध्येऽङ्गमङ्गानां शिक्षादीनां मध्येऽङ्कन गणनया भृता धृता। षडङ्गमध्ये गणितेत्यर्थः । हारलतापि-उदितः प्रकाशीभूतः तारो मध्यमणिर्यस्यां, मुक्ताशुद्धिर्वा यस्यां सा एवंभूता चासौ वृत्ता च वर्तुलमौक्तिकेत्यर्थः । तथा—मध्येङ्गं शरीरमध्ये अङ्केन क्रोडेन वक्षसा भृता धृता । ताराणामिदं तारं संबन्धेऽण् । यद्वा द्वाविंशे सर्गे तार[३]शब्दस्यापि नक्षत्रवाचित्वमुक्तम् । उदितं ताराणां वृत्तं यस्यां यया [४]वा ॥

  अवैमि वादिप्रतिवादिगाढवपक्षरागेण विराजमाने।

  ते पूर्वपक्षोत्तरपक्षशास्त्रे रदच्छदौ भूतवती यदीयौ ॥ ७९ ॥

 अवैमीति ॥ यदीयौ रदच्छदावोष्ठौ ते उभे प्रसिद्ध पूर्वपक्षोत्तरपक्षशास्त्रे भूतवतीत्यहमवैमि । किंभूते-वादिप्रतिवादिनोर्गाढो दृढः स्वपक्षरागः स्वस्वसिद्धान्तानुरागस्तेन विराजमाने । अधरावपि-चदत इति वादिनौ । प्रतिवदत इति प्रतिवादिनौ । उक्तिप्रत्युक्तिचतुरी॥


  1. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी'
  3. 'अत एव 'नक्षत्रे नेत्रमध्ये च तारा स्यात्तार इत्यपि' इति व्याडिः' इति मुकुटेनोक्तम् ।
  4. 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी