पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४१
दशमः सर्गः।

 दासीष्विति ॥ नासीरचरीष्वऽग्रेसरीयु दासीषु चेटीयु विषये जातं पूर्वं समुत्पन्नम् , क्रमेणानन्तरं वीक्षितास्वालीषु सखीपु विषये स्फीतमभिवृद्धिं गतम्, अथ पश्चात्स्वाङ्गेषु भैम्यवयवेषु विषये रूपोत्थं सौन्दर्यादुत्थितं चलितुमारब्धं अवलोककानां प्रेक्षकाणामद्भुताब्धिमुद्वेलयन्तीमतिक्रान्तमर्यादं कुर्वतीम् । दास्यादिक्रमेण सुन्दर-सुन्दरतर-सुन्दरतमत्वदर्शनेन राजानोऽतिसाश्चर्या जाता इति भावः । 'भैमी पपावपाङ्गैरथ राजराजिः' इतः षोडशेनान्वयः[१]

  स्निग्धत्वमायाजललेपलोपसयत्नरत्नांशुमृजांशुकाभाम् ।

  नेपथ्यहीरद्युतिवारिवर्तिस्वच्छायसच्छायनिजालिजालाम् ॥९३॥

 स्निग्धेति ॥ किंभूताम्-स्निग्धत्वं तैलाभ्यक्ताभासत्वम् , मायाजलं कृत्रिमोदकम् , लेपः अधोभागी वर्णोत्कर्षकारी द्रव्यान्तरसंयोगः, एतेषां त्रयाणां दोषाणां लोपे अभावे सयत्नानि कृतप्रयत्नानि । अपनीतदोषाणीत्यर्थः । तेषां रत्नानामंशुमृजा किरणशुद्धिः सैवांशुकाभा वस्त्रदीप्तिर्यस्यास्ताम् । स्निग्धत्वाय नैर्मल्याय मायाजलस्य कृत्रिमोदकस्य लेपः प्रक्षेपस्तस्य लोपेनापाकरणेन सयत्नानां कृतगुणाधानानां निर्मलानां नैर्मल्यार्थपाणिपादसंज्ञकमायाजलप्रक्षेपेण विनैव निर्मलानामिति यावत् । एवंभूतानां रत्नानामशवः तद्वन्मृजा शुद्धिर्यस्या एवंविधा रत्नकिरणशुद्धियुक्ता वा अंशुकामा वस्त्रदीप्तिर्यस्याः । एवंविधेनांशुकेनाभाति, एवंविधां वा । तथा -नेपथ्येष्वलंकारेषु हीराः षट्कोणमणयस्तेषां द्युतिरेव वारि तत्र वर्तत इति वर्ति स्वच्छायं भैम्या एव प्रतिबिम्बं तस्य सच्छायं समानच्छायं सदृशं तत्तुल्यं निजं स्वीयमालिजालं सखीवृन्दं यस्यास्ताम् । प्रतिबिम्बतुल्यत्वाद्बैम्यपेक्षया हीनाः, अन्यापेक्षया चाधिकाः सख्यो यस्या एवंभूतामित्यर्थः। स्वच्छायं, 'विभाषा सेना-' इति नपुंसकत्वम् । व्याख्यानान्तरं कष्टकल्पनया ग्रन्थगौरवभिया चोपेक्ष्यम्[२]

  विलेपनामोदमुदागतेन तत्कर्णपूरोत्पलसर्पिणा च।

  रतीशदूतेन मधुव्रतेन कर्णे रहः किंचिदिवोच्यमानाम् ॥ ९४ ॥

 विलेपनेति ॥ विलेपनस्य सकर्पूरचन्दनाद्यङ्गरागस्यामोदेन परिमलेन या मुत् हर्षस्तेन हेतुना आगतेन । तथा-तस्या भैम्याः कर्णपूरोत्पले सर्पति एवंशीलेन समीपगतेन च । तथा-रतीशदूतेन कामसंदेशहरेण मधुव्रतेन भ्रमरेण रह एकान्ते नल एव रमणीयो वरणीयश्चेति कर्णे किंचिदुच्यमानामिव । अन्योऽपि दूतो रहसि कर्णे कथ[३]यति ॥

  विरोधिवर्णाभरणाश्मभासां मलाजिकौतूहलमीक्षमाणाम् ।

  सरस्वचापभ्रमचालिते नु भ्रुवौ विलासाद्वलिते वहन्तीम् ॥९५॥


  1. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी । 'अत्रैकस्मिन्नद्भुताब्धौ क्रमेणानेकेषां जातत्वस्फीतत्वोद्वैलत्वादीनां वृत्तिकथनात्पर्यायालंकारभेदः' इति जीवातुः।
  2. 'अत्रानुप्रासातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी । 'अत्र भूषामणिप्रभाझरमग्ने सखीजने स्वप्रतिबिम्बत्वोत्प्रेक्षया तासामपि तत्समानसौ-न्दर्य वस्तु व्यज्यते' इति जीवातुः
  3. 'अत्रोत्प्रेक्षारूपकालंकारः' इति साहित्यविद्याधरी|