पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६३

एतत् पृष्ठम् परिष्कृतम् अस्ति

४४२ नैषधीयचरिते


विरोधीति ॥ विरोधिनोऽन्योन्यविरुद्धाः शुभ्रकृष्णनीलादयो वर्णा येषामाभरणाश्म- नामलंकाररत्नानां या भासो दीप्तयस्तासां मल्लाजिकौतूहलं मल्लयुद्धकौतुकमीक्षमाणाम्। परस्परोपमर्द कुर्वतीः रत्नदीप्तीः विलोकयन्तीमित्यर्थः । अन्योऽपि प्रभुमल्लयुद्धकौतुक- मीक्षते । तथा-विलासात्कटाक्षविक्षेपवशाद्वलिते वक्रिते भ्रुवौ वहन्तीं धारयन्तीम् । किंभूते ध्रुवौ-स्मरेण सादृश्यात्स्वचापभ्रमाच्चालिते नु वितर्के१ ॥ सामोदपुष्पाशुगवासिताङ्गी किशोरशाखाग्रशयालिमालाम्। वसन्तलक्ष्मीमिव राजभिस्तैः कल्पद्रुमैरप्यभिलष्यमाणाम्॥९६॥ सामोदेति ॥ तथा-अतिसुन्दरतल्लाभेन सामोदः सहर्षः पुष्पाशुगः कामस्तेन वा- सितमधिष्ठितमङ्गं यस्यास्ताम् । अथ च-सामोदानि सुगन्धीनि पुष्पाणि, आशुगो मल- यानिलस्तैर्वासिताङ्गी सुरभीकृतस्वरूपाम् । तथा-किशोराणि सूक्ष्माणि शाखाग्राण्य- ङ्गुलयो येषामेवंविधाः शया हस्ता यस्या एवंविधा आलिमाला सखीसमूहो यस्याः । यद्वा-नूतनशाखाग्रवद्वालपल्लववदतिरक्ताः करा यस्या एवंभूता आलिमाला यस्या- स्ताम् । अथ च–बालशाखाकिसलयशयालिमाला भ्रमरपङ्क्तिर्यस्यां सा ताम् । तथा-तै राजभिरभिलष्यमाणाम् । कामिव स्थिताम्-कल्पद्रुमैरप्यभिलष्यमाणां वसन्तलक्ष्मी- मिव स्थिताम् । वासित इति मतुबन्तात् 'तत्करोति-' इति ण्यन्ताद्वा शब्दान्निष्ठा२ ॥ पीतावदातारुणनीलभासां देहोपदेहात्किरणैर्मणीनाम् । गोरोचनाचन्दनकुङ्कुमैणनाभीविलेपान्पुनरुक्तयन्तीम् ॥ ९७ ॥ पीतेति ॥ तथा-पीता अवदाता श्वेता अरुणा नीला भा येषां मणीनां किरणैः कृत्वा देहोपदेहाच्छरीरानुलेपनाद्धेतोः यथाक्रमं गोरोचना चन्दनं कुङ्कुम एणनाभी कस्तूरी एतैः कृतान्विलेपान्पुनरुक्तयन्तीम् । निरर्थकान्कुर्वतीमित्यर्थः । 'बहुष्यनियमः' इति नी- लशब्दस्य पूर्वनिपाताभावः। गोरोचनेत्यादि चन्दनादिभिः पूर्वं समासः ३कार्यः || स्मरं प्रसूनेन शरासनेन जेतारमश्रद्दधतीं नलस्य । तस्मै स्वभूषादृषदंशुशिल्पं बलद्विषः कार्मुकमर्पयन्तीम् ॥ ९ ॥ स्मरमिति ॥ तथा-म्सरं प्रसूनेन कुसुमरूपेणातिपेशलेन शरासनेन धनुषा नलस्य जेतारं जैत्रमश्रद्दधतीमसंभावयन्तीम् । अतः कारणात्तस्मै कामायातिदृढं बलद्विष इन्द्रस्य कार्मुकमर्पयन्तीं ददतीम् । किंभूतं कार्मुकम्-स्वभूषासु स्वीयकर्णाद्यलंकारेषु दृषदो रत्नानि तेषामंशवस्तेषां शिल्पं निर्माणरूपम् । भैमीभूषारत्नकिरणैरेव साधनैः स्मरेण नलो जय्यो नान्यरित्यर्थः । नानावर्णेन्द्रधनुर्वद्यदीया रत्नशोभेति ४भावः ॥१ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी । २ 'अत्रोपमातिशयोक्तिरलंकारः' इति साहित्य- विद्याधरी । ३ 'अत्र यथासंख्यमलंकारः' इति साहित्यविद्याधरी । 'अत्र गोरोचनाद्यनुलेपचतुष्टयस्य यथासंख्यसंबन्धेन पीतादिमणिकिरणकैतवकथनाद्यथासंख्यसंकीर्णसामान्यालंकारः' इति जीवातुः । ४ 'अत्रा- तिशयोक्त्यलंकारः' इति साहित्यविद्याधरी