पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४३
दशमः सर्गः।

  विभूषणेभ्योऽवरमंशुकेषु ततोऽवरं सान्द्रमणिप्रभासु ।

  सम्यक्पुनः क्वापि न राजकस्य पातुं दृशा धातृधृतावकाशाम्॥९९॥

 विभूषणेभ्य इति ॥ तथा-विभूषणेभ्योऽवरमर्वाग्भागे वर्तमानष्वंशुकेषु राजकस्य राजसमूहस्य दृशा पातुं न धात्रा धृतः कृतोऽवकाशोऽन्तरालं यस्यां सा । अनेनैव भूषणेष्वपि न धृतावकाशामित्यप्युक्तम् । तथा-ततः अंशुकेभ्योऽवरं सान्द्रमणिप्रभासु राजकस्य दृशा पातुं न धातृधृतावकाशाम् । एवं क्वापि कस्मिन्नध्यवयवप्रदेशे पुनः राजकस्य हशा सम्यक्सामस्त्येन यथावस्थितरूपेण च द्रष्टुं न धातृधृतावकाशाम् । विभूषणांशुकमणिप्रभाच्छादितत्वात्किमप्यङ्गं राजदृष्टिगोचरो नाभूदित्यर्थः । यावद्यावद्वस्तु गोप्यते तावत्तावद्वलोकनार्थमुत्कण्ठा भवतीति सर्वेऽपि तदवलोकनार्थं सोत्कण्ठा जाता इति भावः[१]

 प्रकारान्तरेणाप्यमुमर्थमाह-

  प्राक्पुष्पवर्षैर्वियतः पतद्भिर्द्रष्टुं न दत्तामथ न द्विरेफैः ।

  तद्भीतिभुग्नेन ततो मुखेन विधेरहो वाञ्छितविघ्नयत्नः ॥ १०० ॥

 प्रागिति ॥ तथा-वियतो गगनात्पतद्भिरतिसौन्दर्यदर्शनेन संतुष्टैर्देवैः भैमीशिरसि मुक्तैः पुष्पवर्षै: प्राक्प्रथमतः राजकस्य द्रष्टुं न दत्ताम् । अथ पश्चात्तदनुगामिभिदिरेफैर्द्रष्टुं न दत्ताम् । ततोऽपि पश्चात्तेभ्यो भ्रमरेभ्यो भीत्या भयेन भुग्नं वक्रीकृतं तेन मुखेन द्रष्टुं न दत्ताम् । विधेः वाञ्छितस्य विघ्ने यत्नः अहो आश्चर्यरूपः कष्टरूपो वा । ब्रह्मणा येन केनचित्प्रकारेण सर्वाभिलाषं नाशयितुमेव प्रयत्यते । असाधुर्विधिव्यापार[२]

  एतद्वरं स्यामिति राजकेन मनोरथातिथ्यमवापिताय ।

  सखीमुखायोत्सृजतीमपाङ्गात्कर्पूरकस्तूरिकयोः प्रवाहम् ॥१०१॥

 एतदिति ॥ तथा-सखीमुखाय अपाङ्गान्नेत्रप्रान्तात्कर्पूरकस्तूरिकयोः श्वेतश्यामकान्तिपूरमुत्सृजन्तीम् । कटाक्षैरवलोकयन्तीमित्यर्थः । किंभूताय सखीमुखाय-अहमेतत्सखीमुखं वरं मनागिष्टं स्यां भूयासमिति प्रत्येकं राजकेन मनोरथातिथ्यमभिलापविषयमवापिताय प्रापिताय । सखीमुखत्वेन विना भैमीकटाक्षलाभो न भवतीति राजत्वापेक्षया भैमीसखीमुखत्वमेवास्माकं वरं न राजत्वमित्यर्थः । कटाक्षस्य सितासितरूपत्वं कर्पूरकस्तूरिकापदेनोक्तम्[३]


  1. 'अत्रातिशयोक्त्यलंकारः' इति साहित्यविद्याधरी । 'अत्र विभूषणानामुत्तरोत्कर्षद्वारणे राजकदृष्टक्रमेण विभूषणाद्यनेकाधारसंबन्धोक्तेः सारालंकारः' इति जीवातुः
  2. 'अत्र पर्यायार्थान्तरन्यासोलंकारः' इति साहित्यविद्याधरी
  3. 'अत्र दृष्टीनां सितासितत्वेन निर्देशादेव विषयनिगरणेन विषयिमात्रोपनिबन्धाद्भेदेऽभेदरूपातिशयोक्तिरलंकारः' इति जीवातुः