अङ्गुष्ठेति ॥ तत्र केन नाम केन पुनः जनेन भैमीमवलोक्य तर्जनी दक्षिणकरप्रदेशिनी नास्फोटि अपि तु सर्वेणास्फाल्यते स्म । किंभूताम्-अङ्गुष्ठस्य मूर्ध्ना अग्रेण मध्यमाया अङ्गुलेर्मध्येन भागेन च विनिपीडितं नम्रीकृतमग्रं यस्याः सा । लोकरीतिरियमनुभवैकवे[१]द्या॥
अस्मिन्समाजे मनुजेश्वरेण तां खञ्जनाक्षीमवलोक्य केन।
पुनःपुनर्लोलितमौलिना न भ्रुवोरुदक्षेपितरां द्वयी वा ॥ ११० ॥
अस्मिन्निति ॥ अस्मिन्समाजे पुनः पुनः लोलितमौलिना कम्पितशिरसा केन वा केन पुनः मनुजेश्वरेण राज्ञा तां खञ्जनाक्षी खञ्जरीटतुल्यनेत्रामवलोक्य भ्रुवोर्द्वयी नोदक्षेपितराम् । अतिशयेनोत्क्षिप्तैवेत्यर्थः । आश्चर्यवशाच्छिरःकम्पो भ्रुवोरुत्क्षेपश्च कृत इति भावः[२] ॥
स्वयंवरस्याजिरमाजिहानां विभाव्य भैमीमथ भूमिनाथैः ।
इदं मुदा विह्वलचित्तभावादवादि खण्डाक्षरजिह्मजिह्वम् ॥११॥
स्वयंवरस्येति ॥ अथ भूमिनाथै राजभिः स्वयंवरस्याजिरमाजिहानामागतां विभाव्य दृष्ट्वानुरागवशाद्विह्वलचित्तभावाद्विकलचित्तत्वात्खण्डाक्षरैरर्धोक्तिरूपैर्हेतुभिः जिह्मा कुटिला जिह्वा यस्यां क्रियायां यथा तथा मुदा हर्षेण इदं वक्ष्यमाणमवादि उदितम्। भैमीदर्शनमात्रेण कामपरवशत्वाद्वक्तुमशक्नुवन्तोऽपि हर्षवशाद्वर्णयांबभूवुरित्यर्थः। आजिहानाम्, 'भृञामित्’[३]॥
रम्भादिलोभात्कृतकर्मभिर्मा शून्यैव भूर्भूत्सुरभूमिपान्थैः ।
इत्येतयालोपि दिवोऽपि पुंसां वैमत्यमत्यप्सरसा रसायाम् ॥११२॥
रम्भेति ॥ अत्यप्सरसा सौन्दर्येणातिकान्ता अप्सरसो यया एवंभूतया तया भैम्या इति विचार्य दिवः स्वर्गस्य पुंसामिन्द्रादीनां रसायां वैमत्यमसंमतिः अनिच्छा । अचारुत्वमिति यावत् । अलोपि लुप्तम् । इति किम्-रम्भादिष्वप्सरःसु लोभादनुरागात्कृतं कर्म ज्योतिष्टोमसङ्ग्रामादि यैः सुरभूमिपान्थैः स्वर्गजिगमिषुभिः नरैः भूः शून्यैव मा भूदिति । स्वर्गेप्येतादृश्याः सुन्दर्या अभावादिन्द्रादयोऽपि स्वर्गं परित्यज्य भूमिमेव स्वर्गाधिका मत्वाऽत्र समागताः राजानस्तु ज्योतिष्टोमादि परित्यज्य स्वर्गे न गता इति किं वाच्यमिति भावः [४]॥
रूपं यदाकर्ण्य जनाननेभ्यस्तत्तद्दिगन्ताद्वयमागमाम ।
सौन्दर्यसारादनुभूयमानादस्यास्तदस्माद्बहु नाकनीयः ॥ ११३॥