पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४६८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४४७
दशमः सर्गः।

 रूपमिति ॥ वयं अस्या यद्रूपं जनाननेभ्य आकर्ण्य तस्मात्तस्मादतिरादिगन्तान्प्रा च्यादिदिक्प्रान्तात्सकाशादागमाम आगतवन्तः, तत् अस्याः सौन्दर्यमनुभूयमानात्प्रत्यक्षदृश्यादस्मात्सौन्दर्यसारात् लावण्योत्कर्षाद्वहु अतिशयेनाकनीयो न कनीय एव । अन्यदीयं स्वल्पमपि लोकमुखाद्बहु श्रूयते, एतदीयं याथात्म्येन वर्णनाशक्तेर्बह्वपि सत् अल्पमेव श्रुतमित्याश्चर्यमिति भावः। आगमाम इति लृदित्त्वादङ् । कनीयः 'युवाल्पयोः-' इति कनादे[१]शः॥

  रसस्य शृङ्गार इति श्रुतस्य क्व नाम जागर्ति महानुदन्वान् ।

  कस्मादुदस्थादियमन्यथा श्रीर्लावण्यवैदग्ध्यनिधिः पयोधेः॥११४॥

 रसस्येति ॥ नवरसमध्ये शृङ्गार इति श्रुतस्य ख्यातस्य रसस्य महानुदन्वान्समुद्रः क्व जागर्ति कस्सिन्देशे विद्यते । नाम प्रश्ने अप्यर्थे वा-क नाम कस्मिन्नपि प्रदेशे संभावनायां वा अस्ति इति । कथमवगतमित्यत आह–अन्यथा शृङ्गाररससमुद्राभावे लावण्यस्य सौन्दर्यस्य वैदग्ध्यस्य निधिः इयं भैमी श्रीलक्ष्मीः कस्मात्पयोधेरुदस्थादुत्पन्ना। श्रीः समुद्रादुत्पन्नेति पुराणादौ प्रसिद्धम् । इयं तु श्रियोऽप्यधिका त(य)स्माच्छृङ्गाररससमुद्रादुत्पन्ना, स क्वापि देशे विद्यत एव इति कार्यात्कारणानुमानमिति [२]भावः ॥

  साक्षात्सुधांशुर्मुखमेव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः ।

  एतद्भ्रुवौ मुख्यमनङ्गचापं पुष्पं पुनस्तगुणमात्रवृत्त्या ॥ ११५ ॥

 साक्षादिति ॥ भैम्या मुखमेव साक्षान्मुख्य उपमानभूतः सुधांशुरमृतांशुः कविसंकेते उपमानत्वेन प्रसिद्धश्चन्द्रो भैमीमुखलक्षण एव अतिवृत्तत्वाकलङ्कत्वाह्लादकत्वाद्धरलक्षणस्वादुतमसुधावत्त्वादिना चन्द्रादधिकत्वादित्यर्थः । अथ च-साक्षात् प्रत्यक्षः संनिहिततर इति यावत् । अथ च-भैमीमुखमेव साक्षादभिधावृत्त्या सुधांशुः । ओष्टलक्षणमुख्यसुधासंबन्धात्सुधांशुपदेन भैमीमुखमेव मुख्यवृत्त्याभिधेयमिति भावः । दिवः गगनसंबन्धी शशाङ्कः स्फुटं निश्चितं लाक्षणिकः लक्षणेन कलङ्केन संसृष्टः । अतः साक्षान्मुख्य उपमानभूतो न भवति, किंतु न्यूनगुणत्वादुपमेयमेवेत्यर्थः । अथ च-साक्षादस्मदादिरसनप्रत्यक्षग्रहणयोग्यसुधावत्त्वात् । दिवि स्थितस्तु चन्द्रो लाक्षणिक आनुमानिकः । तदीयसुधाया देवैकभोग्यत्वादस्मदाद्यप्रत्यक्षत्वात् । प्रत्यक्षानुमानयोर्मध्ये प्रत्यक्षस्यैव बलवत्त्वादित्यर्थः। अथ च-लाक्षणिको लक्षणावृत्तिवशात्सुधांशुपदेनाभिधेयो, न त्वभिधावृत्त्या । एतन्मुखं सुधांशुपदेनाभिधावृत्त्याभिधेयम् । चन्द्रस्तु शशाङ्कपदेनाभिधीयत इत्यनयोर्महदन्तरमिति भावः । एतद्द्योतनार्थं सुधांशुशशाङ्कपदे । तथा एतद्भ्रुवौ मुख्यमनङ्गस्य कामस्य चापमभिधावृत्त्या । अथ च-मुखे भवं मुख्यम् । भ्रूरूपं कामचापं मुखे भवत्वान्मुख्यम् । यत् पुनः पुष्पमनङ्गचापत्वेन व्यवह्नि-


  1. 'अत्रातिशयोक्तिरलंकारः' इति साहित्यविद्याधरी
  2. 'अत्रानुमानमलंकारः' इति साहित्यविद्याधरी । 'अत्र 'इयं श्रीः' इति विषयनिगरणेन विषयिमात्रनिबन्धनाद्भेदेप्यभेदात्सातिशयोक्तिः । एतन्मूला च पूर्वोक्तशृङ्गाररससद्भावोत्प्रेक्षा' इत्यनयोरङ्गाङ्गिभावेन संकरः' इति जीवातुः