पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
नैषधीयचरिते}

ऽप्यव्यापारश्चेत्तर्हि ज्ञानं कथम् । उच्यते-स्वप्नार्थानां बाह्येन्द्रियग्राह्यत्वाभावाद्ग्रा. ह्यत्वाभावे सुखादिष्वन्तर्भावाभावादाभ्यन्तरत्वाभावेऽप्यदृष्टसहकृतकेवलाविद्यावृत्ति- रूपसुषुप्तिविषयत्वस्य युक्तत्वात् । आत्मन एव तत्रादृष्टत्वाच्च । आत्मरूपेण नित्यस्फु- रणोपपत्तेः । यद्वा-नल एत्र भैम्या अनुरक्तत्वात्तत्प्राप्तिं विना विषयमात्रस्यापि विरा- गसंभवात्सुखासंभवात् , बोधानन्तरं च 'सुखमहमस्वाप्सं न किंचिद्वेदिषम्' इत्य- नुसंधानस्य सद्भावान्नलविषयत्वमन्तरेणैवमनुसंधानस्यायुक्तत्वात् , सुषुप्त्यवस्थाव- शात्स नल एव मम निरतिशयानन्दात्मरूपत्वेन स्फुरित इति बोधानन्तरं तया ज्ञातमिति भावः । इति यथाकथंचित्सुषुप्त्यवस्था व्याख्येया । एवं यथाक्रमं श्लोकत्र- येणावस्थात्रयेऽपि नलसाक्षात्कारो वर्णितः । बालत्वादतिगूढत्वान्नलविषयोऽनुरागः केनापि न ज्ञात इति तस्य महारहस्यत्वम् ॥

 व्याख्यानान्तरं च -पूर्वस्मिञ्श्लोके स्वप्नावस्थोक्ता 'मनोरथेन-' इति श्लोकेन । म- नोरथेन नलः पतिः कृतः। तत्रैव स्वप्नावस्थायां दृष्टं नलं प्रति स्वयमेवाह-निमीलि. तादिति ॥ हे नल, स प्रसिद्धस्त्वं पतिः स्या भव (इति प्रार्थनायां लिङ्) (अर्थान्मम)। प्रसिद्धस्तु पुराणादौ भैमीपतिर्नल एव, नत्विन्द्राय इतीन्द्रादिपरित्यागेन तस्यैव प्रार्थनायां संबोधनैर्हेतुमाह-यतः हे अक्षियुगात् , अक्षो विभीतको निवासोऽस्या- स्तीत्यक्षी, अक्षि च तद्युगं च-कलियुगं तस्मादपि बाह्य भिन्न । चोऽप्यर्थे । किंभूतादक्षियुगात्-निद्रया निद्राजन्येनाज्ञानेन मीलितात्तिरोहितात् । व्याप्तादि- त्यर्थः । तथा अहृदः अज्ञानिनो जडात् । मूर्खादित्यर्थः । तस्मादपि बाह्य भिन्न । किंभूतादहृदः-इन्द्रियस्य वाग्रूपस्य मौनं व्यापाराभावः तदेव मुद्रा स्वभावो यस्य । परस्तुतौ मूकादित्यर्थः । तल्लक्षणं माघे–'सहजान्धदृशः स्वदुर्नये परदो- षेक्षणदिव्यचक्षुषः । स्वगुणोच्चगिरो मुनिव्रताः परवर्णग्रहणेष्वसाधवः ॥' इति । तथा हे रहस्यम , रहस्या अत्यन्तगोप्या मा लक्ष्मीर्यस्य । तथा हे महन् मानार्ह । एतेषु संबो- धनेषु पदत्रयं हेतुर्यथायथं योज्यम् । किंभूतस्त्वम्-अदर्शिसङ्गः अं विष्णुं पश्यन्ती- त्येवंशीला अदर्शिनो विष्णुभक्तास्तैः सह सङ्गो मैत्री यस्य । पुनः किंभूतः- अकदा- प्यवीक्षितः न कम् अकं दुःखं दापयन्तीत्येवंशीला अकदापिनः स्वयं दुःखं ददति दापयन्ति चेत्येवंशीला दुष्टास्तैरकदापिभिः । अवीक्षितो न दृष्टः । तत्सङ्गादिरहित इत्यर्थः । अत एव मही सर्वदोत्सववान् । स्याः इति मध्यमपुरुषसामर्थ्यात्सा भैमी (प्रार्थयित्री) इति ज्ञातव्यम् । यद्वा कश्चन कस्मैचिदाशिषं ददत्प्रार्थयते स त्वं मही- पती राजा स्या भव इति प्रार्थनायां लिङ् । यद्वा राजानं प्रार्थयते महीपतिस्त्वं प्रसिद्धः स्याः । अन्यत्पूर्ववत् । दमयन्तीसंबोधनपदानि विशेषणपदानि समानार्थानि ज्ञात- व्यानीत्यलम् ॥

अहो अहोभिर्महिमा हिमागमेऽप्यभिप्रपेदे प्रति तां स्मरार्दिताम्।
तपर्तुपूर्तावपि मेदसां भरा विभावरीभिर्बिभरांबभूविरे ॥ ४१ ॥

 अहो इति ॥ अहोभिर्दिवसैः कर्तृभिः हिमागमे हेमन्तर्तावपि स्मरादितां मदनपीडि-


तां तां भैमीं प्रति लक्ष्यीकृत्य महिमा दैर्ध्यं प्रपेदे प्राप्तम् भावरीभी रात्रिभिः तपर्तु १ 'अत्र रूपकमलंकारः' इति साहित्यविद्याधरा