गुरोरपीमा भणदोष्ठकण्ठं निरुक्तिगर्वच्छिदया विनेतुम् ।
श्रमः स्मरस्यैव भवं विहाय मुक्तिं गतानामनुतापनाय ॥ १३१ ॥
गुरोरिति ॥ इमां भैमीं भणद्वर्णयद्गुरोर्बृहस्पतेरपि ओप्टकण्ठं अतिसौन्दर्याद्वर्णयितुमशक्तत्वाद्ववस्तुनिर्वचनं कर्तुमहमेव कुशलं न त्वन्यदिति निरुक्तौ निर्वचनविषये गर्वस्य च्छिदयां निराकरणेन कृत्वा विनेतुं विनीतं कर्तुं अद्यप्रभृति त्वया निर्वचनं न कार्यमिति शिक्षयितुं भैमीनिर्माणरूपः सरत्यैव श्रमो न विध्यादेः । तथा-भवं विहाय संसारं त्यक्त्वा मुक्तिं गतानां पुरुषाणामनुतापनाय सरस्यैव श्रमः भैमीसद्भावात्संसार एव मोक्षः, वयं संसारं त्यक्त्वा किमिति मुक्ता जाता इति तेषां पश्चात्तापः । अतिसौन्दर्याद्वाचस्पतेरपि वागगोचरः। अन्येनापि समर्थन सगर्वस्य गर्वशातनं क्रियते । ओष्ठकण्ठम् , प्राण्यङ्गत्वादेकवद्भावः [१]॥
आख्यानुमक्षिव्रजसर्वपीतां भैमीं तदेकाङ्गनिखातदृक्षु ।
गाथासुधाश्लेषकलाविलासैरलंचकाराननचन्द्रमिन्द्रः॥ १३२ ॥
आख्यातुमिति ॥ इन्द्रः तस्या एकाङ्गे एकैकस्मिन्नवयवे निखाता समारोपिता दृक दृष्टिर्यैस्तेषु राजसु मध्ये अक्षिव्रजैः सर्वाङ्गेषु पीतां दृष्टां नेत्रसहस्रेण दृष्टसर्वावयवां भैमीमाख्यातुं वर्णयितुं गाथा श्लोक एव सुधा तस्या आश्लेषाख्याः कला अलंकारविद्यास्तासां विलासैः श्लेषालंकारयुक्तश्लोकनिर्माणकौशलैः । अथ च-गाथारूपायाः सुधाया आ सामस्त्येन यः श्लेषः संबन्धस्तेन पञ्चदशकलाविलासैः सुधासंबन्धस्य कलानां च विलासैर्वा आननचन्द्रमलंचकार । वक्ष्यमाणप्रकारेण श्लेपेण वर्णयामासेत्यर्थः॥
स्मितेन गौरी हरिणी दृशेयं वीणावती सुस्वरकण्ठभासा ।
हेमैव कायप्रभयाङ्गशेषैस्तन्वी मतिं क्रामति मेनकापि ॥ १३३ ॥
स्मितेनेति ॥ इयं भैमी स्मितेन कृत्वा गौरी अप्सरोविशेषः पार्वती वा, तथा-दृशा हरिणी कुरङ्गी देवाङ्गना च, तथा सुस्वरकण्ठभासातिमधुरस्वरकण्ठश्रिया वीणावती देवाङ्गना वीणायुक्ता च, तथा-कायप्रभयाङ्गकान्त्या हेमा देवाङ्गना सुवर्ण च, तथा-अङ्गानामवयवानां शेषैर्भागैः। शिष्टैरवयवैरित्यर्थः। तैः कृत्वा मेनकाऽपि तन्वी सुन्दरी मतिं क्रामति । बुद्धिस्था भवतीत्यर्थः । कापि तन्वी मे मतिं न क्रामति । बुद्धिस्था न भवतीत्यर्थः । केनचिदंशेन कासांचित्साम्यम् , न तु सर्वथेति सर्वाभ्योऽप्यप्सरोभ्यः सकाशादियं रमणीयतरा, निरुपमेयमिति भावः[२]॥
इति स्तुवानः सविधे नलेन विलोकितः शङ्कितमानसेन ।
व्याकृत्य मर्त्योचितमर्थमुक्तेराखण्डलस्तस्य नुनोद शङ्काम ॥१३४॥