पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५४
नैषधीयचरिते

 इतीति ॥ आखण्डल इन्द्रः तस्य नलस्य समीपे इति एवं गौर्याद्यप्सरस्त्वेन स्तुवानो वर्णयन् नूनमयं भैमीमप्सरस्त्वेन वर्णयति चेन्मदीयं रूपं गृहीत्वा भैमीप्राप्त्यर्थमागत इन्द्रोऽयमिति शङ्कितमानसेन नलेन विलोकितः सन् तस्य नलस्य इन्द्रोयमितीमां शङ्कां नुनोद स्फोटयामास । किं कृत्वा-उक्तेौर्याद्यप्सरःप्रतिपादिकाया अर्थं मर्त्योचितं मनुष्ययोग्यं 'स्मितेन धवला' इत्यादिरूपमर्थं व्याकृत्य व्याख्याय । ममैवान्यथाबुद्धिर्जाता, न त्वयमिन्द्रः, किंतु कश्चन राजा इति तस्येन्द्रत्वशङ्कां दूरीकृतवानिति भावः॥

  खं नैषधादेशमहो विधाय कार्यस्य हेतोरपि नानलः सन।

  किं स्थानिवद्भावमधत्त दुष्टं तादृक्कृतव्याकरणः पुनः सः॥१३५॥

 स्वमिति ॥ अहो आश्चर्य विषादे वा । स इन्द्रः भैमीप्राप्तिलक्षणस्य कार्यस्य हेतोः स्वमात्मानं नैषधादेशं नैषधरूप आदेशो यस्य एवंविधं कृत्वा अनलो नलव्यतिरिक्तो न सन् । अपितु नल एव भवन् । अथ च-नलो ना मनुष्यो भवन्नपि स्थानिवदिन्द्रवद् दुष्टं भावमाशयं किं किमर्थमधत्त धृतवान् । कुतोऽवगतमित्यत आह-यतः स इन्द्रः पुनः पश्चान्नलशङ्कानन्तरं तादृक् मर्त्योचितं कृतं व्याकरणं व्याख्यानं येन सः। इन्द्रस्वरूपत्वे दुष्टाशयत्वं युक्तं सर्वदा तस्य प्रतारकस्वभावत्वात् । नलस्वरूपे धृतेऽपि यत्स्वीयं दुष्टाशयत्वमधत्त तदनुचितम् । नलस्यादुष्टाशयत्वात्तत्स्वरूपे धृतेऽदुष्टाशयस्वस्यैवाङ्गीकर्तुं युक्तत्वादित्यर्थः । नलरूपधारणेनान्यथाव्याख्यानेन च नलं वृथैव प्रतारितवानिति भावः । अथ च-सन् विद्वान् एष तादृक्कृतव्याकरणशास्त्रोऽपि स शक्रः स्वं निजकर्तृकं धादेशं 'नहो धः' इत्येवमादिमादेशं विधाय न अल अनल, न विद्यतेऽनलू यस्मिन्कार्ये तन्नानल् तस्य । अल्संबन्धिन इत्यर्थः । कार्यस्य कृते दुष्टं स्थानिवद्भावं किं नाधत्त । अपितु चकार । 'स्थानिवदादेशोऽनल्विधौ' इत्यलाश्रितकार्ये स्थानिवद्भावो निषिद्धः। तेन 'पथिमथ्यृभुक्षामात्' इत्यात्वे कृते आकारगतस्थानिवद्भावागतं हल्त्वमाश्रित्य 'हल्ङ्याब्भ्यः-' इति सुलोपो न भवति । विद्वानिन्द्रस्तु तत्रापि स्थानिवद्भावं व्यधत्तेत्याश्चर्यम् । अथ च-स इन्द्रो दुष्टं स्थानिवद्भावमादेशित्वं किमधत्त देवत्वं विहाय मनुष्यत्वं किमिति कृतवान् । कीदृशः-ना पुरुषः । तादृक् अपूर्व कृतं विशिष्टमाकरणमाकारो येन सः । इन्द्रमूर्तिरेव नलरूपेण परिणतेत्यर्थः । किं कृत्वा-स्वमात्मानं नैषधादेशं कृत्वा । दमयन्तीप्राप्तिलक्षणकार्यस्य हेतोः। प्रयोजने सत्यप्ययुक्तं न कर्तव्यमिति भावः । कीदृशः सन्-न नलः अनलः सन् । देवत्वं त्यक्त्वा मनुष्याकारादाश्चर्यम् । सर्वे देवत्वाय यतन्त इत्यादि यथाज्ञानं ज्ञातव्यम् ॥

इयमियमधिरथ्यं याति नेपथ्यमञ्जु-
 र्विशतिविशति वेदीमुर्वशी सेयमुर्व्याः ।
इति जनजनितैः सानन्दनादैर्विजघ्ने
 नलहदि परभैमीवर्णनाकर्णनाप्तिः ॥ १३६ ॥