इयमिति ॥ जनजनितैः लोककृतैरिति सानन्दैर्नादः कर्तृभिः नलहदि नलान्तःकरणे वर्तमाना परा श्रेष्ठा परैः कृता वा या भैमीवर्णना तस्या आकर्णनेन श्रवणेन या आप्तिः प्राप्तिः सा विजघ्ने विघ्निता । इति किम्-नेपथ्यमञ्जः अलंकाररुचिरा इयमियमधिरथ्यं रथ्यायां याति गच्छति । सेयमतिप्रसिद्धा उर्व्याः उर्वशी देवाङ्गना इवातिसुन्दरी वैदिं स्वयंवरभूमिं विशति विशति । आनन्दयुक्तैर्नादैः सा परभैमीवर्णनाकर्णनाप्तिरिति वा । भैमीदर्शनविषये ससंभ्रमं लोकं दृष्ट्वा स्वयमपि ससंभ्रमो भृत्वा भैमीस्तुतिं नाशृणोदिति भावः । नलहृदीत्यनेनाकर्णितमपि हृदयस्यान्यत्र गतत्वादनाकर्णितमायमवेति सूचितम् । इयमियमित्यादौ संभ्रमाद्विरुक्तिः॥
श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामलदेवी च यम् ।
तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरसान्महा-
काव्ये चारुणि नैषधीयचरिते सगों निसर्गोज्ज्वलः ॥१०॥
श्रीहर्षमिति ॥ न केवलं काव्यनिर्माण एव कुशलः, किं तु तर्कशास्त्रेऽप्यसमः केनाप्यतुल्योऽभ्यासो यस्य ॥
इति श्रीबेदरकरोपनामकश्रीमन्नृसिंहपण्डितात्मजनारायणकुते नैषधयीयप्रकाशे दशमः सर्गः ॥
एकादशः सर्गः।
इदानीं राजवर्णनार्थमेकादशं सर्गमारभते-
ता देवतामिव मुखेन्दुवसत्प्रसादा- |
तामिति ॥ तदनु अनन्तरं भीमभूमीन्द्रजा भैमी चेतसि धृतस्य नलस्य लाभाय तां राजसभां देवतामिव इष्टदेवतामिव बभाज विवेश सिषेवे च । किंभूताम्-मुखेन्दुषु वसन्वर्तमानः प्रसादः प्रसन्नता यस्याः। भैम्यागमनात्सहर्षाम् । अथ च-मुखचन्द्रे वसन्वरदानलक्षणः प्रसादो यस्याः। तां वरं दातुमुद्यताम् । तथा-रसादनुरागानिमेषे-