पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५७
एकादशः सर्गः।

  आलोकनाय दिवि संचरतां सुराणां

   तत्रार्चनाविधिरभूदधिवासधूपैः ॥ ४ ॥

 कुर्वद्भिरिति ॥ तत्र स्वयंवरदेशे आलोकनाय दिवि संचरतां सुराणामधिवासार्थं सौगन्ध्यार्थ ज्वालितैः कामशरादिरूपैः कृत्वा अर्चनाविधिः पूजाविधानमभृत् । किं-

 :-भूपालानां चक्रं तस्य चलानि चामराणि तेषां मारुतीर्घ वायुसङ्घं आत्मभवसौरभ्यसंप्रदानं दानपात्रं कुर्वद्भिः । चलञ्चामरवायुवशाद्गगनचारिभिधृपदेवाः परितुष्टा बभूवुरि[१]त्यर्थः॥

तत्रावनान्द्रचयचन्दनचन्द्रलप-
 नेपथ्यगन्धवहगन्धवहप्रवाहम् ।
आलीभिरापतदनङ्गशरानुसारी
 संरुध्य सौरभमगाहत भृङ्गवर्गः ॥ ५ ॥

 तत्रेति ॥ तत्र स्वयंवरदेशे भृङ्गवर्गः भ्रमरसङ्घः सौरभं सौगन्ध्यमगाहत बुभुजे । किं कृत्वा-अवनीन्द्रचयस्य राजसमूहस्य चन्दनचन्द्रः चन्दनयुक्तः कर्पूरः । बहुकर्पूरं चन्दनमिति यावत् । तेन कृतं लेपनेपथ्यमङ्गरागभूषणं तस्य गन्धवहः सौगन्ध्यवाही गन्धवहो वायुस्तस्य प्रवाहं सङ्घं आलीभिः स्वपतिभिः संरुध्य कुत्रचिद्गन्तुमदत्त्वा । किंभूतः-आपतन्त आगच्छन्तो येऽनङ्गशरास्ताननुसरत्यनुकरोति एवंशीलः ! आपतन्तः स्वर्गात्पतन्तः कामशराः पुष्पाणि तदनुगामी वा । सौगन्ध्यबाहुल्यात्सर्वत्र भ्रमरा विचरन्ति स्मेति भावः । अन्योऽपि वस्त्रादिना वायु संरुध्य सौरभ गाहते। बद्धप ङ्क्तीनां भ्रमराणां दैर्घ्यात्कामोद्दीपकत्वाच्च कामबाणतुल्यत्वम्[२]

उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गी-
 सर्वानुवादविधिबोधितसाधुमेधाः
सौधस्रजः प्लुतपताकतयाभिनिन्यु-
 र्मन्ये जनेषु निजताण्डवपण्डितवम् ॥ ६ ॥

 उत्तुङ्गेति ॥ सौधरजः धवलगृहप ङ्क्तयः प्लुतपताकतया चलत्पताकतया जनेषु । जनानां समीप इत्यर्थः । निजताण्डवपण्डितत्वं स्वीयनृत्तचातुर्यमभिनिन्युरभिनयेन दर्शयामासुरित्यहं मन्ये । किंभूताः-उत्तुङ्गोऽतितारः मङ्गलमृदङ्गनिनादो विवाहमर्दलध्वनिः तस्य भङ्ग्यः प्रकारविशेषाः तासां सर्वः सकलोऽनुवादविधिरनूच्चारणविधिः । स-


  1. 'अत्राधिवासधूपस्य सुरासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिभेदः' इति जीवातुः
  2. 'अत्रानुप्रासोपमालंकारः' इति साहित्यविद्याधरी