पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५८
नषधायचरिते

कलस्य मृद्गशब्दस्य यः प्रतिशब्दविधिरिति यावत् । तेन बोधिता ज्ञापिता साध्वी मेधा लक्षणया गम्भीरता याभिः । अन्या अपि नर्तक्यो मङ्गलमृदङ्गनिनादभङ्गीनामनुवादेन स्वीयं नृत्तकौशलं हस्ताद्यभिनयेन लोकेषु प्रदर्शयन्ति । अन्यो मेधावी गुरुणा व्याख्यातस्यार्थस्यानुवादेन बोधितसाधुमेधः सन् जनेषु स्वीयं पाण्डित्यं प्रकाशयति । एतच्छ्लोकार्थोऽनुभवैकगम्यः । नन्दुःसुभ्य एव परात् मेधाशब्दादसिचू नान्येभ्यः परादिति नासिं[१]च्॥

संभाषणं भगवती सदृशं विधाय
 वाग्देवता विनयबन्धुरकंधरायाः ।
ऊचे चतुर्दशजगज्जनतानमस्या
 तत्राश्रिता सदसि दक्षिणपक्षमस्याः॥७॥

 संभाषणमिति ॥ भगवती षड्गुणैश्वर्यसंपन्ना। तथा-चतुर्दशसु जगत्सु जनतया नमस्या पूज्या वाग्देवता तत्र सदसि अस्या भैम्या दक्षिणं पक्षं पार्श्वम् म् । अथ च-अनुकूलपक्षम् । आश्रिता सती ऊचे । किं कृत्वा सदृशं देवादिवर्णनविषयं भैम्या सह सदृशमनुगुणं संभाषणं विधाय । किंभूताया अस्याः-विनयेन बन्धुरा नम्रा कंधरा शिरोधरा यस्याः । भगवती इत्यादिविशेषणैर्देवादिवर्णनसामर्थ्यम् । दक्षिणं पक्षमित्यनेन भैमीपक्षपातित्वं च सूचितम् ॥

 किमुवाचेत्याह-

अभ्यागमन्मखभुजामिह कोटिंरेषा
 येषां पृथक्कथनमब्दशतातिपाति ।
अस्यां वृणीष्व मनसा परिभाव्य कंचि-
 द्यं चित्तवृतिरनुधावति तावकीना ॥ ८ ॥

 अभ्यागमदिति ॥ हे दमयन्ति, इह स्वयंवरे मखभुजां देवानामेषा कोटिः अभ्यागमदाययौ । कोटिसंख्याका देवाः समागता इत्यर्थः । येषां देवानां पृथक्कथनं पार्थक्येन वर्णनं अब्दशतं वर्षशतमपतत्यतिक्रामति एवं शीलम् । वर्षशतेनापि कर्तुं न शक्यत इत्यर्थः। तस्मात् त्वं मनसा परिभाव्य विचार्य अस्यां देवकोटौ मध्ये यं कंचित्तावकीना चित्तवृत्तिरनुधावत्यभिलष्यति तं वृणीष्व । मनसा विचार्य वृणीष्व वा। तावकीता चित्तवृत्तिर्मनसा विचार्य इत्यनेन सरस्वत्या अनादरः सूचितः। तावकीना, 'युष्मदस्मदोरन्यतरस्यां खञ्च' इति खञ् , 'तवकममकावेकवचने' इति तवकादेशः॥


  1. साहित्यविद्याधरी अस्मत्सविधे इतः परं नास्ति । 'उत्प्रेक्षा' इति जीवातुः