पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
प्रथमः सर्गः

पूर्तावपि.निदाघर्तुभरेऽपि मेदसा भरा मज्जबाहुल्यं (लक्षणया) स्थूलत्वं विभरांबभू- विरे धृतम् । हेमन्तर्तौ दिनानि ह्रस्वानि, रात्रयो महत्यः । ग्रीष्मेऽपि दिनानि महान्ति, रात्रयोऽल्पाः । विरहित्वादतिवाहयितुमशक्यत्वात्तां प्रति विपरिता जाता इत्यर्थः। अहो विचित्रमित्यर्थः । अहो इत्योदन्तत्वात्प्रगृह्यत्वम् । बिभरामित्यत्र 'भीह्री-' इत्याम् लवच ॥ इदानी नलस्यापि तस्यामनुरागमाह-

स्वकान्तिकीर्तिव्रजमौक्तिकस्रजः श्रयन्तमन्तर्घटनागुणश्रियम् ।
कदाचिदस्या युवधैर्यलोपिनं नलोऽपि लोकादशृणोद्गुणोत्करम् ४२

 स्वकान्तीति ॥ कदाचित्कस्मिंश्चित्समये नलोऽपि लोकाल्लोकमुखादस्या भैम्या गु- णोत्करं गुणसमूहमशृणोत् । किंभूतं गुणोत्करम् -युवधैर्यलोपिनं तरुणधैर्यलोपन- शीलम् । तथा स्वस्या भैम्याः कान्तिकीर्तिव्रजः सौन्दर्यविषयो यो यशःसमूहः स एव शुभ्रत्वान्मौक्तिकमाला तस्या अन्तर्घटना नलस्य मनसि या घटना संबन्धस्तस्यै गुणश्रियं दोरकशोभां श्रयन्तं कुर्वाणम् । गुणोत्करेण नलचेतसि तत्कान्तिकीर्तिर्गु- म्फितेत्यर्थः मालाया अन्तर्घटनार्थं दोरको भवति । यद्वा-स्वस्य नलस्य । तद्योगे नलरामणीयकानुरूपो भैमीगुणमूह इति भावः । मौक्तिकमिति विनयादित्वात्स्वार्थे ठक् । लोकादिति हेतौ प1ञ्चमी ॥

तमेव लब्ध्वावसरं ततः स्मरः शरीरशोभाजयजातमत्सरः ।
अमोघशक्त्या निजयेव मूर्तया तया विनिर्जेतुमियेष नैषधम् ॥४३॥

तमेवेति ॥ ततो भैमीगुणश्रवणानन्तरं स्मरः कामस्तमेवावसरं प्रस्तावं लब्ध्वा तया भैम्या कृत्वा नैषधं नलं विनिर्जेतुं पराभवितुमियेष ऐच्छत् । उत्प्रेक्षते-मूर्तया शरी- रिण्या निजया स्वकीययामोघशक्त्येव । यतः स्वशरीरस्य या शोभा तस्या जयस्तेन जातो मत्सरः क्रोधो यस्येति पराजयेच्छायाः कारणम् । जातक्रोधो वैरी कमप्यवसरं प्राप्य शक्त्यायुधः सन्वैरिणं पराजेतुं प्रक्रमते । शोभेति भिदादिगणे निपातना- त्सा3धुः॥

अकारि तेन श्रवणातिथिर्गुणः क्षमाभुजा भीमनृपात्मजालयः ।
तदुच्चधैर्यव्ययसंहितेषुणा स्मरेण च स्वात्मशरासनाश्रयः ॥ ४४ ॥

अकारीति ॥ तेन क्षमाभुजा राज्ञा नलेन भीमनृपात्मजालयः भीमनृपकन्या आलयः स्थानमाश्रयो यस्य एवंभूतो गुणः सौन्दर्यादिः श्रवणातिथिः श्रवणगोचरोऽकारि


१ 'अत्र हिमागमे कारणे सत्यपि दिनानां लघुत्वं कार्यं नोक्तम् । तथा ग्रीष्मे कारणे सत्यपि रात्रीणां लघुता नोक्ता' इति विशेषोक्तिरलंकारः । दिनरात्रिमहत्त्वे स्मरार्दितत्वं कारणमस्ति तेन विभावना । छेकानु- प्रासोऽपि' इति साहित्यविद्याधरी । २ 'अत्र कीर्तिव्रजंगुणोत्करयोर्मुक्ताहारगुम्फनसूत्रत्वरूषणाद्रूपकालं. कारः' इति जीवातुः। ३ 'अत्रोत्प्रेक्षालंकारः' इति साहित्यविद्याधरी। .