पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४५९
एकादशः सर्गः।

एषां त्वदीक्षणरसादनिमेषतैषा
 स्वाभाविकानिमिषतामिलिता यथाभूत् ।
आस्से तथैव तव नन्वधरोपभोगै-
 मुग्धे विधावमृतपानमपि द्विधास्तु ॥ ९ ॥

 एषामिति ॥ ननु मुग्धे सुन्दरि, एषां देवानां त्वदीक्षणे रसात्प्रीतेर्हेतो: एया प्रत्यक्षदृश्या अनिमेषता निर्निमेषता स्वाभाविकी सहजानिमिपता तया मिलिता संयुक्ता सती यथा द्विधा द्विप्रकाराभूत् । तथैवामृतपानमपि तवास्ये विधी मुखचन्द्रेऽधरोपभोगैरधरचुम्बनैः कृत्वा द्विधा द्विप्रकारमस्तु भवतु । यथा देवा देवत्वादनिमिया अपि त्वदवलोकनप्रसादात्पुनरप्यनिमिषा जाताः। तथा देवत्वात् चन्द्रामृतादा अपि त्वदधरामृतास्वादादमृतादाः पुनरुक्ता भवन्त्वित्यर्थः । चन्द्रास्ययोस्तुल्यत्वं सूचितम् । मुखे त्वोष्ठोपभोगैः, चन्द्रे तु धराव्यतिरिक्तोपभोगैः । स्वर्गोपभोगैरित्य[१]र्थः ॥

एषां गिरेः सकलरत्नफलस्तरुः स
 प्रादुग्ध भूमिसुरभेः खलु पञ्चशाखः ।
मुक्ताफलं फलनसान्वयनाम तन्व-
 न्नाभाति बिन्दुभिरिव च्छुरितः पयोधेः ॥ १० ॥

 एषां गिरेरिति ॥ सकलानि रत्नान्येव फलानि यस्य । तानि फलति इति वा । सकलरत्नफलः स प्रसिद्धः तरुः कल्पवृक्ष एषां देवानां गिरेः सुमेरोः पञ्चशाखः खलु हस्त इव आभाति शोभते । किंभूतस्य मेरोः-प्राक् पूर्व दुग्धा भूमिरेव सुरभिर्धेनुः येन । धृतगोरूपा भूमिरेव रत्नादीनि दुग्धा येन तस्य । किंभूतस्तरः-पयोधेः क्षीरसमुद्रस्य बिन्दुभिः तत उत्पन्नत्वाच्छुरितः। पयोभिः' इति पाठे दुग्धरूपैबिन्दुभिरिति व्याख्येयम् । उत्प्रेक्षते-मुक्ताफलं फलनेन सान्वयं सार्थकमेतदेव नाम यस्यैवंविधं तन्वन्निव । कस्यचित्फलं हि फलशब्देन व्यपदिश्यते, तथा मुक्ताफलस्यापि फलत्वं कल्पवृक्षत्वादिति भावः । प्रारब्धगोदोहनस्य पाणिना विना दोग्धुमशक्तः कल्पवृक्षो मेरोः कर आसीत् । दोहने दुग्धसंपर्कस्यापि संभवात् , तेन च रत्नानामेव दुग्धत्वादस्य च रत्नसहितत्वात्प्रायेण मेरोः पाणिरेवायमित्यर्थः । क्षीरोदात्तस्योत्पन्नत्वात्मुक्तादीनि रत्नानि दुग्धबिन्दुतुल्यानि शोभन्त इत्यर्थः । अथ च-पञ्च शाखाः स्कन्धा यस्य स कल्पवृक्षः किल पञ्च (शाखः ।) करोऽपि अङ्गुलीभिः पञ्चशाखः । पृथूपदिष्टा पृथ्वी मेरुणा रत्नानि महौषधीश्च दुग्धा इत्यागमः । फलनेन इष्टसंपादनेन सान्वयं सयोगं नाम यस्य एवंविधं मुक्ताफलं संपादयन्निवेति वा । गोपालसहचारित्वादत्राप्यनादरः सूचितः ॥


  1. 'अनानिमिषत्वामृतपानयोद्वैविध्यासंबन्धोक्तेरतिशयोक्तिः' इति जीवातुः