पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६१
एकादशः सर्गः।

 रक्ष:स्विति ॥ यानवर्गः वाहकसार्थो रक्षःसु निजमरक्षणमवेक्ष्य राक्षसा अस्मान् खा- दिष्यन्तीति भिया तेभ्यो निवृत्तः परावृत्तः। तथा-अश्वमुखनराङ्गेषु नरमुखाश्वाङ्गेषु विद्याधरेषु भैम्या वपुषैव कृत्वा अधरतां न्यूनतामवेक्ष्य विचार्य निवृत्तः। एते भैमीवरणयोग्या न भवन्तीति । तथा--गन्धर्वसंसदि गन्धर्ववर्गे तस्या भैम्याः स्वरस्य कण्ठमाधुर्यस्य गन्धमपि न विमृश्य नावेक्ष्य विमुखोऽजनि जातः। अधरतामवक्ष्येत्यर्थः। राक्षसादीनामयोग्यत्वात्तान्प्रति न गच्छति स्मेति भावः ॥

दीनेषु सत्स्वपि कृताफलवित्तरक्षै-
 ’र्यक्षैरदर्शि न मुखं त्रपयैव भैम्याम् ।
ते जानते स्म सुरशाखिपतिव्रतां किं
 ’तां कल्पवीरुधमधिक्षिति नावतीर्णाम् ॥ १४ ॥

 दीनेष्विति ॥ यक्षै: त्रपयैव लज्जयैव भैम्यां विषये मुखं न अदर्शि न दर्शितम् । यतः-किंभूतैः-दीनेषु दरिद्रेषु जनेषु सत्स्वपि कृता अफला वित्तरक्षा धनपालनं यैः । दीनेभ्यो न वितीर्णधनैः । अतिकृपणैरित्यर्थः । 'भैम्याः' इति पाठे तस्याः सकाशाल्लज्जयेति योज्यम् । यक्षेषु धनाधिपत्वं प्रसिद्धं लज्जा किमिति जातेत्याशझ्याह-ते यक्षाः तां भैमीमधिक्षिति पृथिव्यामवतीर्णां सुरशाखिनः पत्युः कल्पवृक्षस्य पत्युरिव दानशूरत्वलक्षणं व्रतं यस्यास्तां कल्पवीरुधं स्त्रियं कल्पवल्लीमतिबहुदात्रीम् । अथ च सुरशाखी नल एव तस्याः प्रतिव्रतां कल्पवल्लीम् । किं न जानते स्म । अतिवदान्यां तां प्रति अतिकृपणस्यात्मनोऽयोग्यत्वात्तैर्मुखं नादर्शीति भावः । अन्योऽपि कृपणो वदान्यमुखनिरीक्षणेऽपि लज्जते ॥

जन्यास्ततः फणभृतामधिपः सुरौघा
 न्माञ्जिष्ठमञ्जिम[१] वगाहिपदोष्ठलक्ष्मीम्।
तां मानसं निखिलवारिचयान्नवीना
 हंसावलीमिव घना गमयांबभूवुः ॥ १५ ॥

 जन्यास्तत इति ॥ ततः जनीं वहन्तीति जन्या वाहकाः तां भैमीं सुरौघादेवसमू- हात्सकाशात्फणभृतामधिपं सर्पराजं वासुकिं गमयांबभूवुः प्रापयामासुः। किंभूताम्- मञ्जिष्ठया रक्तं वस्त्रं माञ्जिष्टं तस्य मञ्जिमानं रम्यतामवगाहते एवंशीला पदोष्टलक्ष्मीः चरणाधरशोभा यस्याः सा । के कस्मात्कां किमिव-नवीना नूतना घना मेघा नि- खिलवारिचयात्कृत्स्नजलौघात्सकाशाद्धंसावली राजहंसपङ्क्तिंं मानसं सर इव। 'यान्याः' इति पाठे याने यानवाहने साधुरिति माञ्जिष्ठम् , 'तेन रक्तम्' इत्यण् ॥


  1. 'विगाहि-' इति जीवातुसंमतः पाठः ।