यस्या विभोरखिलवाङ्मयविस्तरोऽय- |
यस्या इति ॥ सा पुनः बाला भैमीमभाषत । किंभूता-सभायां सततं प्रगल्भा। सा का वाल्मीकिप्रमुखैर्मुनिभिरयं वेदादिरखिलवाङ्मयविस्तरः विभोः सर्वव्यापिन्याः यस्या देव्याः परिणतिः परिणाम आख्यायते कथ्यते'। तद्रूपेणैव या व्यवस्थिता। किंभूताम्-उद्गत्वर उदयाचलस्थोऽमृतकरश्चन्द्रः तस्यार्धं तद्वत्परार्ध्यं तत्सदृशं भालं यस्यास्ताम् । भया दीप्त्या सह वर्तमानेति भिन्नं वा । वाङ्मयम् , 'एकाचो नित्यम्' इति मयट् । 'गत्वरश्च' इति निपातनादुद्गत्वरः साधुः॥
आश्लेषलग्नगिरिजाकुचकुङ्कुमेन |
आश्लेषेति ॥ सोऽयं वासुकिः। किंभूतः-शंभोः सेवासु प्रसित आसक्तः। तथासितश्रीः श्वेतशोभश्च । स कः-यः शंभोर्यज्ञोपवीतपदवीं लभते। किंभूतः-य आश्लेषेणालिङ्गनेन लग्नं यद्गिरिजाकुचकुङ्कुमं तेन कृत्वा पट्टसूत्रस्य परिरम्भणेनेव संबन्धे- नेव शोणशोभो रक्तशोभः । यज्ञोपवीतमपि श्वेतं ग्रन्थिस्थाने पट्टसूत्रेण शोणशोभं भवति । सर्वदा शंभुसेवया संभोगाभावादेनं मा वृणीष्वेति भावः । पुराणे देवानां चातुर्वर्ण्याधिकारे 'ब्रह्मा विप्रः, रुद्रः क्षत्रियः, विष्णुर्वैश्यः, दस्रौ शूद्रौ' 'माञ्जिष्ठं क्षत्रियः' इति वचनाद्यज्ञोपवीतस्यारक्तत्वं कथितमिति वा । प्रथितः' इति पाठे सेवासु ख्यातः॥
पाणौ फणी भजति कङ्कणभूयमैशे |
पाणाविति ॥ हे भैमि, सोऽयं फणीन्द्रो वासुकिः ऐशे शाम्भवे पाणौ कङ्कणभूयं कङ्कणत्वं भजति । यातीत्यर्थः। किंभूतं (यं) कङ्कणत्वम्-उच्चैः मनोहरमणीभिः रमणी-
- ↑ 'मूर्तिः' इति जीवातुसंमत पाठः ।