पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६६
नैपधीयचरिते

  शृङ्गारसर्गरसिकद्व्यणुकोदरि त्वं

   द्वीपाधिपानयनयोर्नय गोचरवम् ॥२६॥

 पुष्पेति ॥ शृङ्गाररसस्य सर्गे निर्माणे रसिकं प्रीतिमत् पुनःपुनः तन्निर्माणशीलं द्व्यणुकं तद्वदतिकृशं तदेव वा उदरं यस्यास्तत्संबुद्धिः हे कृशोदरि, त्वं अमून्द्वीपाधिपान्पुकरादिसप्तद्वीपेश्वरान्राज्ञो नयनयोर्गोचरत्वं नय प्रापय । अनुग्रहबुद्ध्या विलोकयेत्यर्थः । किंभूतान्-पुष्पेषुणा ध्रुवं निश्चितम् इषुवर्षे बाणमोचने जप्यत इति जप्तिः जपितो हुंकाररूपो मन्त्रः तस्य बलेन शक्त्या कृत्वा भस्मिता नाशिता शान्तशक्तिः उपशमप्रभावो येषां तान् । जप्तिरित्येव युक्तः पाठः । अन्योऽपि हुंफडादिमन्त्रवलेन कस्यचिच्छक्तिं दूरीकृत्य वशीकरोति ॥

स्वादूदके जलनिधौ सवनेन सार्धं
 भव्या भवन्तु तव वारिविहारलीलाः ।
द्वीपस्य तं पतिममुं भज पुष्करस्य
 निस्तन्द्रपुष्करतिरस्करणक्षमाक्षि ॥ २७ ॥

 स्वाद्विति ॥ हे निस्तन्द्रस्य विकसितस्य पुष्करस्य कमलस्य तिरस्करणे जये क्षमे अक्षिणी लोचने यस्यास्तत्संबुद्धिः भैमि, स्वादूदके मधुरसलिले जलनिधौ समुद्रे सवनेन नाम्नाऽनेन राज्ञा सार्धं तव वारिविहारलीला जलक्रीडाः भव्या रम्याः भवन्तु । तस्मात्पुष्करस्य द्वीपस्य पतिं तं प्रसिद्ध सवननामानममुं राजानं भज वृणीष्व । 'तन्द्रानिद्राप्रमीलयोः' इत्यमरः॥

सावर्तभावभवदद्भुतनाभिकूपे
 स्वभौममेतदुपवर्तनमात्मनैव।
स्वाराज्यमर्जयसि न श्रियमेतदीया-
 मेतगृहे परिगृहाण शचीविलासम् ॥ २४ ॥

 सावर्तेनेति ॥ आवर्तेन दक्षिणावर्तेन सह वर्तमानः सावर्तस्तस्य भावस्तेन भवदुत्पद्यमानमद्भुतमाश्चर्यं यस्सादेवंभूतो नाभिकूपो यस्यास्तत्संबुद्धिः सलक्षणगम्भीरनाभिकूपे भैमि, एतस्य सवनस्योपवर्तनं देशः आत्मनैव भौमं भूमौ भवं स्वः स्वर्गोऽस्ति । त्वमेतदीयामेतद्देशसंबन्धिनीं एतद्राजसंबन्धिनीं वा श्रियमेव स्वाराज्यं स्वर्गराज्यं नार्जयसि । अपि त्वर्जय । त्वम् एतद्गृहे शचीविलासं परिगृहाण । इन्द्रतुल्यमेनं शचीवत् त्वं वृणीष्वेति भावः। कूपस्य च सावर्तत्वमाश्चर्यकारि । 'नीवृजनपदौ देशविषयौ तूपवर्तनम्' इत्यमरः[१]


  1. 'एतदूरेव स्वर्गः, एतद्राज्यमेव स्वाराज्यम्, अयमेवेन्द्रः, त्वमेवेन्द्राणी भव' इति रूपकालंकारः' इति जीवातुः