देवः स्वयं वसति तत्र किल स्वयंभू- |
देव इति ॥ तत्र पुष्करद्वीपे हिमवच्छीतलच्छाये न्यग्रोधमण्डलतले मण्डलाकारवटवृक्षाधःप्रदेशे यः स्वयंभूर्ब्रह्मा देवः स्वयं साक्षात्स्वरूपेण किल प्रसिद्धं वसति, स ब्रह्मा त्वां त्वल्लक्षणमनन्यकल्पमनन्यसदृशं निजशिल्पं निजनिर्माणं विलोक्य सर्वेषु कारुषु शिल्पिषु विषये करेण दर्पं गर्वं करोतु । एवं सुन्दरतरशिल्पनिर्माणकुशलो मदन्यस्य हस्तो न विद्यत इति त्वां वीक्ष्य तस्य बुद्धिरुदेष्यतीति भावः । अन्येन कल्प्यते निर्मी- यत इत्यन्यकल्पं तन्न भवति । अन्येन निर्मातुमशक्यमित्यर्थः । अन्यस्मादीपट्टनमेवं न भवति । कल्पवन्तं वा ॥
न्यग्रोधनादिव दिवः पतदातपादे- |
न्यग्रोधेति ॥ हे भैमि, त्वं तं न्यग्रोधं वटं तस्य द्वीपस्यातपत्रमिवातपत्रं छन्त्रतुल्यं पश्य । किंभूतं न्यग्रोधम्-दिव आकाशात्पतत आतपादेरुप्णवृष्ट्यादेः न्यक् अधोदेशे रोधनान्निराकरणादिव न्यग्रोधं 'न्यक् रुणद्धि' इति न्यग्रोधः इति सान्वयम् । अतिशीतलच्छायमित्यर्थः । तथा -अवरोहैः शाखोत्पन्नमूलैः कृत्वा आत्मभरं धारयति एवंभूतमिव स्थितम् । किंभूतमातपत्रम्-पाकीनि फलानि नीलानि दलानि पर्णानि च तेषां द्युतिभ्यां रक्तनीलशोभाभ्यां कृत्वा शिखिपत्रजं रक्तनीलमयूरपत्रविरचितम् । समस्तमपि द्वीपं तच्छाये वर्तत इति शेषः । अन्योऽपि बहुतरं भारं हस्तादिना धारयति । 'न्यग्रोधस्य च केवलस्य' इति निपातान्यग्रोधशब्दः साधुः[१]।
न श्वेततां चरतु वा भुवनेषु राज- |
- ↑ प्रसिद्धमातपत्रं तद्वत्स्थितम्' इति निमित्तगुणजातिस्वरूपोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । मोत्प्रेक्षया अङ्गाङ्गिभावेन सजातीयसंकरः । द्वितीयया सजातीयसंसृष्टिः' इति जीवातुः ।