पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६९
एकादशः सर्गः।

त्यर्थः । तस्य राज्ञोऽपि मलिनच्छवेः मलिनकान्तेः यो भूमा बाहुल्यमेव धूमस्तस्या अलाभाज्जातस्तापस्तल्लक्षणो वह्निस्तस्य चिह्नीबभूव लिङ्गमासीत् । श्यामशोभां दृष्ट्वा जनेन तस्य विरहज्वरोऽनुमित इत्यर्थः । धूमोऽग्नेर्लिङ्गम्[१]

राज्यान्तराभिमुखमिन्दुमुखीमथैनां
 जन्या जनी[२] हृदयवेदितयैव निन्युः ।
अन्यानपेक्षितविधौ न खलु प्रधान-
 वाचां भवत्यवसरः सति भव्यभृत्ये ॥ ३४ ॥

 राजेति ॥ अथ जन्या यानवाहाः इन्दुमुखीमेनां जनीं वधूं हृदयवेदितयैव भैम्याशयज्ञातृतयैव पुरो गच्छत इत्यादिभैमीवचनमन्तरेणैव राजान्तरस्याभिमुखं निन्युः। यतोऽभिप्रायज्ञाः । खलु यस्मादन्येन स्वामिवचनादिना स्वीयप्रवर्तनाविषयत्वेनानपेक्षितो विधिर्व्यापारो यस्यैवंविधे स्वामिवचनानपेक्षकारिणि भव्ये कुशलतरे भृत्ये सेवके सति प्रधानवाचां स्वामिवचसामवसरः प्रस्ताव एव न भवति । तस्मात्तदभिप्रायं ज्ञात्वान्यत्र निन्युरिति युक्तम् । अनपेक्षितमन्यत्स्वामिवचनादि येन एवंविधो विधिर्यस्येति वा । अन्यशब्दस्याहिताग्न्यादित्वापूर्वनिपातः[३]

ऊचे पुनर्भगवती नृपमन्यमस्यै
 निर्दिश्य दृश्यतमतावमताश्विनेयम् ।
आलोक्यतामयमये कुलशीलशाली
 शालीनतानतमुदस्य निजास्यबिम्बम् ॥ ३५ ॥

 ऊच इति ॥ भगवती देवी दृश्यतमतया सुन्दरत्वेनावमतौ जितावाश्विनेयावश्विनीकुमारौ येन एवंभूतमन्यं नृपमस्यै निर्दिश्य दर्शयित्वा पुनरूचे । किमूचे इत्यत आह-अये भैमि, शालीनतया लज्जया आनतं नम्रं निजास्यबिम्बमुदस्योग्नमय्य कुलशीलाभ्यां शालत एवंभूतोऽयं राजा आलोक्यताम् ॥

एतत्पुरःपठदपश्रमबन्दिवृन्द-
 वाग्डम्बरैरनवकाशतरेऽम्बरेऽस्मिन् ।
उत्पत्तुमस्ति पदमेव न मत्पदाना-
 मर्थोऽपि नार्थपुनरुक्तिषु पातुकानाम् ॥ ३६॥

एतदिति ॥ हे भैमि, एतस्य पुरः पठत् अपश्रमं गतश्रमं यद्बन्दिवृन्दं तस्य वाग्ड-


  1. 'अत्रानुमानालंकारः' इति जीवातुः
  2. ' ‘जनाः' इति पाठो जीवातुसुखाववोधासंमतः ।
  3. ' 'अ-र्थान्तरन्यासः' इति जीवातुः