पृष्ठम्:नैषधीयचरितम् (नैषधीयप्रकाशव्याख्यासहितम्).pdf/४९१

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७०
नैषधीयचरिते

म्बरैर्वचनविलासैः कृत्वा अनवकाशतरेऽतितरां निरवकाशेऽस्मिन्नम्बर आकाशे मत्पदानां मम एतद्वर्णनसंबन्धिनां सुबन्ततिङन्तानां पदानामुत्पत्तुमुदेतुं पदमेऽवावकाश एव नास्ति । आकाशाश्रिता हि शब्दास्तैस्तस्य च निरवकाशत्वान्मद्वचनानवकाशः। तथा-अर्थपुनरुक्तिषु पातुकानां मत्पदानामर्थोऽपि नास्ति । मयाभिधेयाः शब्दास्तेषामर्थाश्चैतदीयैर्मागधैरेवोच्यन्ते । ततश्च शब्दपौनरुक्त्यमर्थपौनरुक्त्यं च दोषो मम आपत्स्यत इत्यर्थः । एतद्वर्णनं ममापि संमतमित्येनं वृणीष्वेति भावः । बहुभिर्व्याप्तेऽन्यस्मिन्नपि स्थाने चरणावकाशो न भवति । उत्पत्तुम् , अनिटः पद्यतेस्तुमुन् ॥

नन्वत्र हव्य इति विश्रुतनाम्नि शाक-
 द्वीपप्रशासिनि सुधीषु सुधीभवन्या ।
एतद्भुजाबिरुदबन्दिजयानयापि
 किं रागि राजनि गिराजनि नान्तरं ते ॥ ३७ ॥

 नन्विति ॥ ननु भैमि, ते आन्तरं मानसमेतस्य राज्ञो भुजयोर्बिरुदं प्रतापः तस्य स्तुतिपाठका ये बन्दिनस्तेभ्यो जाता एवंभूतयाप्यनया गिरा हव्य इति विश्रुतनाम्नि अत्रास्मिन्राजनि रागि अनुरागयुक्तं किं नाजनि । प्रश्नकाकुः । कुतो नाजनीति वा। किंभूते-शाकद्वीपप्रशासिनि शाकद्वीपाधिपे । किंभूतया गिरा-सुधीषु पण्डितेषु सु- धीभवन्त्या अमृतीभवन्त्या । आकर्णयतां विदुषाममृतरूपया । विदुषामेवामृतरूपया न त्वन्यजनानामिति विरागसूचनम् ॥

शाकः शुकच्छदसमच्छविपत्रमाल-
 भारी हरिष्यति तरुस्तव तत्र चित्तम् ।
यत्पल्लवौघपरिरम्भविजृम्भितेन
 ख्याता जगत्सु हरितो हरितः स्फुरन्ति ॥ ३८॥

 शाक इति ॥ तत्र द्वीपे स शाकनामा तरुस्तव चित्तं हरिष्यति ॥ किंभूतः-शुकच्छदैः कीरपक्षैः समा छविर्येषामेवंभूतानि पत्राणि तेषां मालां बिभर्तीति । स कः- यस्य शाकस्य पल्लवौघानां परिरम्भः संबन्धस्तस्य विजृम्भितेन विलसितेन हरितो नीलवर्णाः सत्यो जगत्सु हरित इति ख्याताः स्फुरन्ति । एतत्परसंबन्धेन दिशां हरित इति सान्वयं नाम जातमित्यर्थः। मालभारी, 'इष्टकेषीका-' इति [१]ह्रस्वः॥

  स्पर्शेन तत्र किल तत्तरुपत्रजन्मा

   यन्मारुतः कमपि संमदमादधाति ।


  1. 'दिक्षु हरिच्छब्दप्रवृत्तेर्हरितवर्णनिमित्तायाः शाकतरुपल्लवच्छायाच्छुरणनिमित्तत्वासंबन्धेऽपि संबन्धोक्तस्तद्रूपातिशयोक्तिः तया च तस्य तरो(र्वि)स्तारो व्यज्यत इत्यलंकारेण वस्तुध्वनिः' इति जीवातुः